________________
चतुर्थः परिच्छेदः । पुंस्कोकिलकुलस्यैते नितान्तमधुरारवैः ।
सहकारदुमा रम्या वसन्ते कामपि श्रियम् ॥ ३५ ॥ एतानि अष्ट पृष्टानां उदाहरणानि वक्ष्यन्तेऽनुक्रमेण-राजन्नवघनश्याम इत्यत्र अव, विद्विषो छ रणे इत्यत्र ध, नितान्तमधुरारवैरित्यत्र अधुः ॥
इति क्रियागुप्तजातिः। न करोति नाम रोषं न वदति परुषं न हन्त्ययं शत्रून् । रखयति महीमखिलां तथापि धीरस्य वीरस्य ॥ ३६॥ शरदिन्दुकुन्दधवलं नगपतिनिलयं मनोहरं देवम् ।
यः सुकृतं कृतमनिशं तेषामेव प्रसादयति ॥ ३७॥ अत्र धीरस्येति पदे धीः, मनोहरमित्यत्र मनः, इति कर्तृपदं गुप्तम् ॥
इति कर्तृगुप्तम् । सीत्करासारसंवाही सरोजवनमारुतः । प्रक्षोभयति पान्थस्त्रीनिःश्वासैरिव मांसलः ॥ ३८॥ सुभग तवाननपङ्कजदर्शनसंजातनिर्भरप्रीतेः ।
शमयति कुर्वन्दिवसः पुण्यवतः कस्य रमणीयः ॥ ३९ ॥ सरोजवनमारुत इत्यत्र सरः । शमयतीत्यत्र शमिति कर्मपदं मिन्नत्वेन ॥
इति कर्मगुप्तम् । पूतिपकमयेऽत्यर्थ कासारे दुःखिता अमी। दुर्वारा मानसं हंसा गमिष्यन्ति धनागमे ॥ ४०॥ अहं महानसा यातः कल्पितो नरकस्तव ।
मया मांसादिकं भुक्तं भीमं जानीहि मां बक ॥ ४१ ॥ दुष्टं वा जलं दुर्वाः तेन दुर्वारा कलुषितजलेन । महञ्च तत् अनः शकटं च महानः तेन महानसा ॥
इति करणगुप्तम् ।। अम्भोरुहमये स्नात्वा वापीपयसि कामिनी । ददाति भक्तिसंपन्ना पुष्पसौभाग्यकाम्यया ॥ ४२ ॥ प्रशस्त्यायुक्तमार्गस्य तव संमानितां श्रिताः ।
स्पृहयन्ति न के नाम गुणरत्नालय प्रभो ॥ ४३ ।। अम्भोरुहमये इत्यत्र अये। इ: कामस्तस्मै अये चतुर्थी । प्रशस्त्यायुक्तमार्गस्थे. त्यत्र प्रशस्त्यै कल्याणाय उक्तमार्गस्य ॥
इति संप्रदानगुप्तम् ।। शिलीमुखैस्त्वया वीर दुर्वारैनिर्जितो रिपुः । विभेत्यत्यन्तमलिनो वनेऽपि कुसुमाकुले ॥४४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com