________________
ध्यायः ३. ]
संस्कुतटीका - भाषाटीकासमेतः ।
(८९)
तत्परिधिस्थत्वं स्वल्पान्तरत्वादङ्गीकृत्य भगवता कृपालुना छायाग्रदर्शनं विनापि छायाप्रस्थानज्ञानमन्यकालिकच्छायाग्रस्थानयोर्दर्शनेनाभीष्टसमये मेघादिनाच्छादिते खौ राश्यादिस्सूर्यज्ञानोपजीव्याग्राभुजादिज्ञानार्थमुक्तम् । बहुकालान्तरितभाग्रहणे स्थूलम् । अल्पान्तरिते किञ्चित् सूक्ष्ममिति ध्येयम् ॥ ४० ॥
मा०टी० - इष्ट दिनके मध्य में और पूर्वमें व परमें तीन चिह्न करके. मत्स्यद्वयगत रेखाके संयोगस्यान से तीन चिह्नाको स्पर्श करके वृत्तकल्पना करनेसे छायाशेष, भ्रमणमार्ग निर्णीत होता है ( वास्तविक सुक्ष्मविचार करके छापाय दूसरे मार्ग में भ्रमण करत ह) ॥ ४० ॥
अथ कालज्ञानमुक्त्वा तदुपजीवकफलादेशाद्युपयुक्तलग्नज्ञानं विवक्षुस्तदुपयुक्त स्वोदयज्ञानार्थं मेषादित्रयाणां लकोदयासुसाधनपूर्वकतन्निषंधनं श्लोकाभ्यामाह
त्रिभद्युकर्णार्धगुणाः स्वाहोरात्रार्धभाजिताः ॥ क्रमादेकद्वित्रिभज्यास्तच्चापानि पृथक् पृथक् ॥ ४१ ॥ स्वाधोधः परिशोध्याथ मे पालङ्कोदयासवः ॥ खागाष्टोऽर्द्धगोऽगेकाः शत्र्यंकहिमांशवः ॥ ४२ ॥
एकद्वित्रिभज्याः एकराशिज्या द्विराशिज्या. त्रिराशिज्यास्त्रिराशिद्युज्यया गुण्याः क्रमात्स्वक्रान्तिज्यासम्बन्धिद्युज्याभिर्माज्याः । फलानां धनूंषि भिन्नभिन्नस्थाने स्थाप्यानि । स्थानद्वये स्थाप्यानीत्यर्थः । अनन्तरं स्वाधोऽधः स्वादधोऽध एकराशिज्यासम्बन्धिफलं यथास्थितं ततः प्रथमफलं द्वितीयफलाद्वितीयफलं तृतीयफलान्यूनीकृत्य पृथगनुक्तौ प्रथमफलं द्वितीयफलान्यूनं कृतं सद्दयोः फलयोर्मार्जनात् तृतीये शोध्यासम्भवः । प्रथमस्य ज्ञानासम्भवश्चेति प्रथमद्वितीययोः पृथक् स्थापनमावश्यकम् । अतएव न त्रिधा पृथगित्युक्तम् । मेषात् मेषमारभ्य राशित्रयाणां लंकोदयासवो भवन्ति । प्रथमफलं मेषस्योदयासवः द्वितीयोनतृतीयंफलं मिथुनस्योदयासव इत्यर्थः । नियतत्वात्तन्मान नमाह--खागाष्टय इति । मेषमानं सप्ततियुतं षोडशशतं वृषमानं पञ्चोनमष्टादशशतम् । मिथुनमानं पञ्चत्रिंशदधिकमेकोनविंशतिशतमित्यर्थः । अत्रोपपत्तिः । सिद्धान्तशिरोमण "मेषादिजीवाः श्रुतयोऽववृत्ते तद्भूमिजे क्रान्तिगुणा भुजाः स्युः । तत्कोटयः स्वद्युनिशाख्यवृत्ते व्यासार्द्धवृत्ते परिणामितानाम् ॥ चापेषु । तासामसवस्ततो ये तेऽधोविशुद्धा उदया निरक्ष ॥” इति । तत्स्वरूपोत्तत्याविज्याकर्णे त्रिराशिद्युज्या कोटिस्तदैकद्वित्रिराशिज्याकर्णेषु काइत्यनुपातेन कोटयो युज्याप्रमाणेनाहोरात्रवृत्ते तदासुकरणार्थं त्रिज्या - प्रमाणेन साध्या इति युज्याप्रमाणेनैतास्तदा त्रिज्याप्रमाणेन का इत्यनुपातेन त्रिज्ययोर्गु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com