________________
(८८) सूर्यसिद्धान्तः
[तृतीयोऽगुणितापरमक्रान्तिज्यया मक्ता फलस्य धनराश्यादिकं क्षेत्रं स्थानं भुज इति यावत् । पदैश्चतुर्भिश्चिद्वज्ञातैस्तत्र पदे भव उत्पन्नः । यथोक्तरीत्या कर्कादौ प्रोज्झ्य चक्रार्धे त्यायुक्त्या सूर्यः स्यात् । अत्रोपपत्तिः । कर्णाग्रे कर्णाग्रा लभ्यते त्रिज्याग्रे केत्यग्रा । त्रिज्याकर्णे लम्बज्याकोटिस्तदानाकर्णे काकोटिरित्यनुपातेन त्रिज्ययोस्तुल्ययोगुणहरयो शादिष्टकर्णाग्रागुणितलम्बज्याकर्णभक्ता क्रान्तिज्या । अस्यासूर्यानयनं प्रागेवाक्तमिति पुनरुक्तत्वात्सुगमतरम् ॥ ३९ ॥ ___ भा० टी०-इटाग्रसे लम्बन्धाको गुण करके अपने कर्णागुलसे भाग करनेपर रविक्रान्ति ज्या होगी । तिसको त्रिज्यासे गुणकरके परमापक्रमज्यासे भाग करनेपर लब्धज्यासंख्याके धनु निर्णय करनेसे (यह जाना हुआ रहनेसे कि चक्रके कोन पदमें है ) रविका (सायन) स्फुट होताहे ॥ ३९॥ अथ माभ्रमणमाह
इष्टेऽह्निमध्ये प्रापश्चाद्धृते बाहुबयान्तरे ॥
मत्स्यद्रयान्तरयुतस्त्रिस्पृकसूत्रेण भाभ्रमः ॥ ४० ॥ अभिमते दिवसे पूर्वविभागे पश्चिमविभागे बाहुत्रयान्तरे पूर्वापरसूत्राभुजत्रयान्तरे स्थाने धृते । अयमर्थः। पूर्वापरसूत्रस्य मध्यस्थानाडुजांगुलान्तरेण चिह्नमेकं द्वितीयं पूर्वविभागे पूर्वापरसूत्रात्कालान्तरीयभुजांगुलान्तरेण चिह्नतृतीयं पश्चिमविभागे पूर्वा परसूत्रादितरकालान्तरीयभुजांगुलान्तरेण चिह्नम् । एवमेकस्मिन् दिवसे कालत्रये स्वभुजान्तरेण पूर्वापरसूत्राचिह्नत्रये कृते सतीति । मत्स्यद्वयान्तरयुतेरव्यवहितचिह्नाभ्यां प्रत्येकं मत्स्यमुत्पाद्येति मत्स्यद्वयस्य प्रत्येकमुखपुच्छगतरूपमध्यसूत्रयोः स्वमार्गानुसारेण प्रसारितयोर्योगो यस्मिन् स्थाने तस्मादित्यर्थः । त्रिस्पृक्सूत्रे । चिह्नत्रयलग्नतुल्यसूत्रमितितेन व्यासार्धेन भाभ्रमच्छायामार्गमण्डलं भवति । प्रथमान्तिमकालान्तर्गतकालिकच्छायाग्रं तद्वृत्तपारधौ भवतीत्यर्थः । अत्रोपपत्तिः । प्राच्यपरसूत्राझुजान्तरे छायाग्रामति छायाप्रत्रयं ज्ञात्वा तत्स्पृष्टपरिधिवृत्तस्य मध्यज्ञानार्थमव्यवहितचिह्नद्वयमत्स्याभ्यामव्यवहितचिह्नमध्यस्य दक्षिणोत्तरसूत्रे भवतः । तत्र वृत्तपरिधिप्रवेशेभ्यः केन्द्रस्य तुल्यान्तरत्वेनाव्यवहितचिह्नमध्यस्थानस्यावश्यं परिधिसक्तत्वात्तत्सूत्रमाप केन्द्रे लग्नं भवति । एवं प्रत्येकाव्यवहितचिह्नमध्यसूत्रयोर्योगस्तद्वृत्तकेन्द्रं सिद्धम् । मध्यरेखाज्ञानार्थ मत्स्यद्वयं तत्केन्द्रावृत्तं भागत्रयस्पृग्भवतीति किं चित्रम् । यद्यपि छायाग्रस्य सूर्यचलनानुरोधेन चलनात्तस्य तु वृत्ताकारासम्भवास्प्रतिक्षणयुरात्रवृत्तभेदात् । अन्यथा क्रान्तिभेदानुपपत्तेरित्येकवृत्तपारधौ छायाग्रभ्रमणं न सम्भवति । अतएव भास्कराचार्यैः ‘भत्रितयागाभ्रमणं न सत्' इत्युक्तम् । तथापि साधितभाग्राणामवश्यमेकवृत्तस्थत्वसम्भवात्तदन्तर्वतिनां छायाग्राणां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com