________________
घ्यायः ३. ]
संस्कृतटीका - भाषाटीकासमेतः ।
योर्वर्गान्तरान्मूलं दृग्ज्योच्यते । अत्रोपपत्तिर्बीजैकवर्णमध्यमाहरणेन । तत्र " यावत्तावत कल्प्यमव्यक्तराशेर्मानं तस्मिन् कुर्वतेोद्दिष्टमेव । तुल्यौ पक्षौ साधनीयौः प्रयत्नात्त्य त्तत्वाक्षिप्ता वापि संगुण्य भक्त्वा ॥ " इत्युक्तेः । समौ पक्षौ साध्यौ तदर्थ कोणशंकुमानम् । या १ द्वादशकोटौ पलभा भुजः शंकुकोटौ को भुज इति कोणशंकुतलम् । या. प. १२ । अग्रयायुतं दक्षिणगोले भुजः । या. प. अ. १३' । उत्तरगोलेऽग्रयान्तरितं भुजस्तत्र समवृत्तादुत्तरं शंकृतलोनामा भुजः । या. प. अ. १३ । समवृत्ताद्दक्षिणेऽग्रोन शंकुतलं भुजः । या. प. १ ० ३ । कोणस्य दक्षिणोत्तरपूर्वापरसूत्रमध्यत्वाद्धजतुल्यसमचतुरस्रे कर्णः स्वस्वस्तिकात् कोणस्थसूर्यनतांशानां ज्यादृग्ज्येति भुजवर्गे द्विगुणदृग्ज्यावी दक्षिणगोले । याव. प. व. १. या. प. अ. २४ अव ७३४ उत्तरगोले । याव. पव. १ या. प. अ. २४ अव ४ । अयं कोणशंकुः । या १ वर्गयाव - १ हीनत्रिज्या वर्गरूपदृग्ज्यावर्गयाव त्रिव १ सम इति पक्षौ समच्छेदीकृत्य च्छेदगमे पक्षयोः शोधनार्थ न्यासः ।
दक्षिणगोले { याव॰ पव. १ या. प. अ. २४ अव १४४
}
उत्तरगोले {
याव. पव. १ या. प. अ. २४. अव १४४ / या. ७२ या. त्रिव. ७२
अथ " एकाव्यक्तं शोधयेदन्यपक्षादूपाण्यन्यस्येतरस्माच्च पक्षात् " इत्युक्तेनाव्यक्तपक्षेऽव्यक्तवर्गस्थाने द्विसप्ततिपलभावर्गयोगो यावत्तावद्वर्गगुणोव्यक्तस्थाने पलभाग्रा चतुर्विंशतिघातो यावत्तावद्गुणो दक्षिणगोले धनमुत्तरगोले ऋणम् । रूपपक्षे तु चतुश्च - त्वारिंशदधिकशतगुणितेनाग्रावर्गेण हीनो द्विसप्ततिगुणात्रिज्यावर्गस्तत्र द्विसप्ततिगुणत्रिज्यावर्गश्चतुश्चत्वारिंशदधिकशतगुणितेन त्रिज्यावर्गार्थेन न तुल्यत्वात्तुल्य गुणला -: घवार्थ तथैव धृतः । तत्राप्येकदैव गुणनार्थं त्रिज्यावर्गार्थमग्रावर्गेण हीनं चतुश्चत्वारिंशदधिकशतगुणमिति सिद्धम् । सार्धराशिंज्याधिकाग्रायां तु त्रिज्यावर्गाधन हीनोऽग्रावर्गश्चतुश्चत्वारिंशदधिकशतगुण ऋणम् । “ अव्यक्तवर्गादि यदावशेषं पक्षौ तदेष्टेन निहत्य किश्चित् । क्षेप्यं तयोर्येन पदप्रदः स्यादव्यक्तपक्षोऽस्य पदेन भूयः । व्यक्तस्य पक्षस्य समक्रियैवमव्यक्तमानं खलु लभ्यते तत् ॥ " इत्युक्तेः पक्षयोर्मूलार्थमव्यक्तवगौनापवर्तः कार्यः । वर्गीकस्तु द्विसप्ततियुतः पलभावर्गस्तेनापवर्तितेऽव्यक्तपक्षे प्रथमस्थाने यावत्तावद्वर्गः सिद्धः । द्वितीयस्थाने द्विमितगुणकस्य पृथक्करणादर्कनी विषुवच्छायाग्रज्यया गुणिता तथा भक्ता फलाख्यमित्युक्त्या फलं द्विगुणं यावत्तावगुणं दक्षिणोत्तरगोलक्रमेण धनमृणम् । रूपपक्षेऽपवर्जिते करण्याख्यं सार्द्धराशिज्यातोऽग्रायामूनाधिकायां धनमृणम् । ततोऽपि मूलार्थपक्षयोरव्यक्तांकार्धरूपफलस्य वर्गों योजितः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com