________________
ध्यायः ३.] संस्कृतटीका-भाषाटीकासभेतः। (८१) कर्णेन द्वादशांगुलशंकुस्तदा त्रिज्याकर्णेन के इति मध्यशंकुस्तात्कालिकः । द्वादशकोटावक्षमाभुजस्तदा महाशंकुकोटौ क इति शंकुतलम् । द्वादशयो शात्पलभात्रिज्याघातो मध्यकर्णभक्त इति । अनेन भुजेन मध्यशंकुस्तदाग्राभुजेन क इति समशंकुादशाग्रामध्यकर्णघातो मध्यकर्णपलभाभ्यां भक्तोऽग्राभुजे समशंकुतडत्योः कोटिकर्णत्वात् । अस्मात्पूर्वप्रकारेण च्छायाकर्णानयने द्वादशयो शान्मध्यकर्णपलभात्रिज्याघातोऽग्रामध्यकर्णाभ्यां भक्त इति तुल्ययोर्मध्यकर्णमितगुणहरयो शाकरणेन सिद्धम् । स्वतन्त्रे च्छस्य नियोक्तमशक्यत्वात् । तत्रापि भाज्यहरौ त्रिज्ययापवर्त्य हरस्थाने मध्यकर्णगुणिताया त्रिज्याभक्तेति मध्यकर्णाग्रा सिद्धा अतो मध्याग्रयोडत इत्युक्तम् । भाज्यस्थाने तु मध्यकर्णपलभाषात इति दक्षिणगोले ग्रहादर्शनान्न साधितः । उत्तरगोलेऽ. पि क्रांतिरक्षाधिका तदा सममण्डलप्रवेशासम्भवान्न साधितः सममण्डलावध्यक्षांशत्वात्। अल्पक्रांती तत्सम्भवात्साधितः । नासिद्धं गोले गणितसाध्यं मानाभावादित्युपपन्नं सौम्येत्यादि । भास्कराचार्यैस्तु -"मार्तण्डः सममण्डलं प्रविशति स्वल्पेऽपमे स्वात्पलादृश्यो ह्युत्तरगोल एव स विशन् साध्या तदैवास्य भा । अप्राप्तेऽपि समाख्यमण्डलमिने यः शंकुरुत्पद्यते नूनं सोऽपि परानुपातविधये नैवं क्वचिदृश्यति ॥” इत्यनेन तत्रापि साधितः ॥ २६ ॥ ___ भा०टी०-जब क्रान्ति अक्षसे कम होवे,तघ विषुवच्छाया गुणित मध्याह्न कर्णको मध्याग्रासे भाग करनेपर पहला कहा हुआ कर्ण होगा ॥ २६ ॥
अथ स्वाभिमतकर्णेन स्वस्वकाले भुजाथै कर्णवृत्ताग्रा साध्येति। सूचनार्थ कर्णाग्र भुक्तप्रकारेण पुनरपि मध्यकर्ण इति प्रागुक्तस्य स्फुटीकरणाथै चाह
स्वक्रान्तिज्या त्रिजीवानी लम्बज्याप्ताग्रमोर्विका ॥
स्वेष्टकर्णहता भक्तात्रिज्ययायांगुलादिका ॥ २७ ।। स्वाभिमतकालिकक्रांतिज्या त्रिज्यया गुणिता लम्बज्यया भक्ता फलमग्राज्यारूपा । लम्बज्याकोटौ त्रिज्याकर्णः क्रांतिज्याकोटौ कंः कर्ण इत्यग्रेत्युपपत्तिः।' उत्तरार्द्ध पुनरुक्तव्याख्यातप्रायम् । यदि तु पूर्वोक्तकर्णवृत्ताग्रानयनश्लोके' शंकुजीवयेत्यस्य शंकोः कोटिरूपत्वात्पूर्व साधितनतांशभुजकोटिज्ययेत्यर्थो मध्यकर्ण इत्यस्य च तात्कालिकमध्याह्नच्छायायाः कर्णस्तदा न पुनरुक्तम् । परन्त्वर्काग्रेत्यस्य तात्कालिकमध्याह्नकालिककर्णाग्रार्थः स्वकेत्यस्य च स्वाभीष्टकालिककर्णाग्रार्थो बोध्यः । एतदुपपत्तिस्तु दादशकोटावक्षकर्णः कर्णस्तदाक्रांतिज्याकोटौ कः कर्ण इति स्वकालिकाप्रा । त्रिज्यावृत्त इयं तदा तात्कालिकमध्याह्नकालिकच्छायाकर्णेन नतांशकोटिज्याभक्तद्वादशत्रिज्याघातात्मकेन केति द्वादशत्रिज्याघातयोगुणहरत्वेन तुल्ययो शादक्षकर्णगुणितक्रान्तिज्या तात्कालिकमध्याह्ननतांशकोटिज्यया भक्तति । तात्कालिकमध्याह्नच्छायाकर्णेनेयं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com