________________
(८०) सूर्यसिद्धान्तः
[तृतीयो:लम्बज्याक्षज्ये क्रमेणाक्षभाद्वादशाभ्यां गुणिते उभयत्र क्रान्तिज्यया भक्ते तुकाराकले समवृत्तस्थ तौ दृग्योग्यच्छायासम्बद्धौ कौँ भवत उभयत्र छायाकर्णः स्यात् । अत्रोपपत्तिः । स्वमस्तकोपरि पूर्वापरानुकारेण यदृत्तं तत्सममण्डलसंज्ञम् । तत्रस्थस्य च्छायाकर्णानयनम् । पलभाभुजेऽक्षकर्णः कर्णस्तदा क्रांन्तिज्या भुजे कः कर्ण इति समशङ्कः क्रान्तिज्याभुजे समशङ्कुः क्रान्तिज्याभुजे समशकुकुज्योनतदृत्योः क्रमेण कर्णकोटित्वात । अस्मात् शङ्कमानांगुलाभ्यस्ते इत्यादिना त्रिज्या द्वादशगुणितानेन भक्ता तत्र 'छेदं लवं च परिवर्त्य हरस्य शेषः कार्योऽत्र भागहरणे गुणनाविधिश्च' इत्युक्तेः । पलभया त्रिगुण्याक्रान्तिज्याक्षकर्णाभ्यां भक्ता । तत्र त्रिज्या 'द्वादशगुणिताक्षकर्णभका लम्बज्यैव सिद्धातो लम्घज्यापलभागुणिताकान्तिपाभक्ताफलं समवृत्तगतच्छायाकर्णः । अथात्रैव पलभाभुजे द्वादशकोटिरक्षज्या भुजे का कोटिरिति लम्बज्यान. हणे पलभयोस्तुल्यत्वान्नाशादक्षज्याद्वादशगुणाकान्तिज्याभक्ताछायाकर्णः सममण्डल गतः क्रान्तिज्यायाः सदायं कर्णः सिद्धयेन्नहि सर्वदा समवृत्तगतो ग्रह इति समवृत्तगता ग्रहस्यैव कर्णः साध्यो नान्यदेति सूचनार्थ सममण्डलगे रखावित्युक्तम् ॥ २५॥
भा० टी०-(विमण्डलस्थ होनेपर लम्बज्याको विषुवच्छायांसे गुण अथवा मक्षज्याके द्वादशद्वारा गुणकरके क्रान्तिज्यासे भाग करनेपर कर्ण होगा ॥ २५॥ , ननु ग्रहाधिष्ठिताहोरात्रपूर्वापरवृत्तसम्पातादवलम्बरूपसमशङ्कोर्गोले प्रत्यक्षसिद्धस्य साधनाथ समवृत्तस्थत्वाभावेऽपि च्छायाकर्णः साध्यः । सममण्डलगे खावित्युक्तिस्तु स्वाधिष्ठिताहोरात्रवृत्तपरा न त्वन्यदा न साध्योऽन्यथा लक्षत्वेन प्रकारस्यातिप्रसङ्गापत्तेः । नहि प्रकारे तव्यावर्तकं विशेषणं प्रसिद्धं येन नातिप्रसंगः । परन्तु यदा सममण्डलेऽशांशाधिकक्रान्त्या ग्रहाधिष्ठितारात्रवृत्तानामसम्बन्धस्तदा गोले समशङ्कारदर्शनात्तत्र कथं तत्साधनमनिवारितमित्यतः सममण्डलगे खावित्यस्य पूर्वोक्त एवार्थ इत्यभिप्रायं सममण्डलकर्णानयनप्रकारान्तरकथनच्छलेनाह
सोम्याक्षोना यदा क्रान्तिः स्यात्तदा छुदलश्रवः॥
विषुवच्छाययाभ्यस्तः कणों मध्याग्रयोद्धृतः ॥२६॥ यदोत्तराकान्तिरक्षादल्पा स्यात्तदा द्युदलश्रवः समवृत्तस्याकाक्रांतिसाधितमध्याह्नकर्णः । नतु मध्याह्नकालिकः। अक्षमया गुणतो मध्याग्रया गृहीतमध्याह्नकर्णाग्रया भक्तः फलं सममण्डलगतग्रहबिम्बस्य च्छायाकर्णः स्यात् । अत्र सौम्यत्यनेन दक्षिणक्रान्तौ तदसाधनं सममण्डलगतग्रहबिम्बस्यादर्शनादिति स्फुटमुक्तम् । अन्यथाक्षाल्पकान्तौ दक्षिणगोले समशङ्कोः प्रत्यक्षत्वात्तन्निवारणानुपपत्तेः । अत्रोपपत्तिः । सममण्डलप्रवेशकालिकमध्याह्नच्छायाकर्णादवस्तुभूता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com