________________
ध्यायः ३] संस्कृतटीका-भाषाटीकासमेतः ।
(७९) अर्काग्रा सूर्यस्याभीष्टकालिककर्णाग्रा याम्ये दक्षिणगोले विषुवद्भायुताक्षच्छायया युक्तोत्तरदिको भुजः स्यात् । उत्तरगोले विषुवत्यां पलभायां कर्णायां विशोध्य न्यूनीकृत्य शेषमुत्तरादिको भुजः स्यात् । ननु कर्णाग्रा पलभायां यदा न शुद्धयति तदा कथं भुजः साध्य इत्यत आह-विपर्ययादिति । अक्षभां कर्णाग्रायां विशोध्य शेष दक्षिणो भुजः स्यात् । ननु भुजस्य याम्यत्वमुत्तरत्वं वा कस्मादित्यत आह-पाच्यपरान्तर इति । पूर्वापरसूत्रादन्तरालप्रदेशे याम्य उत्तरो वा भुजः स्यादित्यर्थः । ननु तथापि द्वितीयावधेरनुक्तत्वादन्तरस्याप्रसिद्धेः पूर्वापरसूत्रात्कस्यान्तरं भुज इत्याशङ्काया उत्तरं मध्याह्नच्छायास्वरूपकथनच्छलेनाह-माध्याह्निक इति । मध्याह्नकालिको भुजः सदा माध्याह्निकी मध्याह्नकालिकी छायोक्ता । तथा च छायाग्रं प्राच्यपरसूत्राद्याम्यमु. तरं वा यदन्तरण स भुज इति व्यक्तीकृतम् । अत्रोपपत्तिः । शङ्खमूलं प्राच्यपरसूप्राथाम्यमुत्तरं वा यदन्तरेण स याम्योत्तगे भुजो ग्रहस्य । शड्डस्तु 'ग्रहादवलम्बसूत्र क्षितिजसमसूत्रावधि तत्रायं भुजः शंकुतलाग्रयोः संस्कारजः । शंकुतलं तु स्वाहोरात्रवृत्तस्थितोदयास्तसूत्राच्छड्डुमूलं यदंतरेण तद्दक्षिणम् । अग्रानुपूर्वापरसूत्रादुदयास्तसूत्रावध्यन्तरमुत्तरदक्षिणगोलक्रमेणोत्तरदक्षिणा । तत्र ग्रहापरदिशि षड्भान्तरेऽस्मादयस्तमिति शङ्कतलमुत्तरमग्रापि व्यस्तदिकति तत्संस्कारो भुजो गोले प्रत्यक्षः । स महाशङ्कोरिति महाशङ्कोरयं तदा द्वादशाङ्गुलशङ्कोः क इत्यनुपातेन भुजः पूर्वापरसूत्राच्छायाप्रावधि । तत्र शकुन्तलाग्रे द्वादशाङ्गुलशङ्कोः साधिते तत्संस्कारेण भुजः स एव । तत्राप्यप्रात्पूर्व साधिता शङ्कुतलं तु द्वादशाङ्गुलशङ्कोः पलभा महाशङ्कः कोर्टः शङ्कुतलं भुजो हृतिः कर्ण इत्यक्षक्षेत्रे द्वादशकोटौ पलभाभुजस्तदा महाशङ्कुकोटौ को भुज इत्यनुपातन शङ्कतलमानीय महाशङ्कोरियं द्वादशाङ्गुलशङ्कोः किमित्यनुपाते गुणहरयोस्तुल्यत्वान्नाशेन पलभाया एवावशिष्टत्वात् । सा तूत्तरादक्षिणगोलेऽग्राया उत्तरत्वादेकदिक्त्वेन पलभाग्रयोर्योग उत्तरो भुजः । उत्तरगोलेयाया दक्षिणत्वेन भिन्नदिक्त्वात्पल भारयोरन्तरं भुजस्तत्र पलभायाः शेषमुत्तरो भुजोऽयायाः शेषं दक्षिणो भुजः । मध्याह्न छायायाभुजरूपत्वान्मध्याह्नकालिको भुजो मध्याह्नच्छायेति सर्वं युक्तम् ॥ २२ ॥२४॥
मा० टी०-दक्षिणगोलमें विषुवद्भासे स्वकर्णाग्राका योग और उत्तरमै विषुवदासे वियो। ग करनेपर उत्तर भुज होता है ।। २३ ॥ विषुवद्भासे वियोग मसम्भव, होनेपर स्वकर्णा ग्रासे वियोग करनेपर दक्षिणभुन होता है । मध्याह्न की मध्याह्नच्छाया कहते हैं ॥ २४॥ मथ याभ्योत्तरवृत्तस्थच्छायाकर्णमुक्त्वा पूर्वापरवृत्तस्थच्छायाकणे प्रकारद्वयेनाह
लम्बाक्षजीवे विषुवच्छायाद्वादशसंगुणे ॥ क्रान्तिज्याप्ते तु तो कौँ सममण्डलगे खो ॥२५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com