________________
सूर्यसिद्धान्तः
(७८)
अथ च्छायाकर्णयोरानयनमाहशङ्कमानगुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम् ॥ कोटिज्यया विभज्याते छाया कर्णावहर्दले ॥ २१ ॥
भुजत्रिज्ये नतांशज्या त्रिज्ये इत्यर्थः । शङ्काः प्रमाणांगुलानि द्वादश तैर्गुणिते कार्ये । उभयत्र कोटिज्या नतांशोननक्यंशानां ज्ययेत्यर्थः । भक्त्वा लब्धे द्वे यथाक्रमं भुजज्या त्रिज्यास्थानीयफलक्रमेण मध्याह्ने छाया तत्कर्णौ भवतः । अत्रोपपत्तिः । द्वादशांगुलशंकुः कोटिरिष्टच्छायाभुजस्तत्कृत्योयोगपदं कर्ण इति च्छायाकर्णः कर्ण इति च्छायाक्षेत्रे । महाशंकुकोटौ दिग्ज्यात्रिज्ये भुजकर्णे तदा द्वादशांगुलशंकुकोटौ कावित्यनुपातेन मध्याह्नकाले छाया तत्कर्णौ भवतः । साधकयोस्तात्कालिकत्वादियुपपन्नम् ॥ २१ ॥
[ तृतीयोs
मा० टो० - शंकुम नांगुलि ( १२ ) से भुजज्या ( नतशिको ) और त्रिज्याको अलगअलग गुणकरके कोर्टज्यासे विभक्त करनेपर छाया और कर्ण होंगे ॥ २२ ॥ व्यथ भुजसाधनं विवक्षुः प्रथममग्रां कर्णाग्रआनयतिक्रांतिज्या विषुवत्कर्णगुणाप्ता शंकुजीवया ॥ तर्कायास्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका ॥ २२ ॥
सूर्यकान्तिज्या अक्षकर्णगुणिता शंकुजीवया शंकुर्द्वादशांगुलस्तद्रूपाज्या तयेत्यर्थः द्वादशाभिरिति फलितम् । भक्ताफलं सूर्यस्याग्रा । उपलक्षणाद्रहस्यापि इयमग्रास्वा - मिमतकालिकच्छाया कर्णेन गुणिता मध्यकर्णोड़ता कर्णस्य व्यासस्य मध्यमर्धमिति मध्यकर्णो व्यासार्धं त्रिज्या तयेत्यर्थः । पूर्वापरप्रथमचरमजघन्य समानमध्यमध्यमवीराश्चेति सूत्रेण मध्यपदस्य पूर्वनिपातः । भक्ताफलं स्वका स्वकर्णाग्रा स्यात् । अत्रोपपत्तिः । क्रांतिज्योन्मण्डले कोटिरक्षितिजे कर्णः कुज्याभुज इत्यक्षक्षेत्रे द्वादशकोटावकर्णः कर्णस्तदा क्रान्तिज्याकोटौ कः कर्ण इत्यनुपातेनाग्रा । त्रिज्यावृत्त इयं कर्णवृत्ते केत्यनुपातेन कर्णवृत्तात्युपपन्नम् ॥ २२ ॥
मा० टी० - क्रान्तिज्याको मक्षकर्ण से गुणकरके शंकु ( १२ ) से भाग करनेपर सूर्याग्रा देता है । मग्राको इष्ट देवसीय कर्णसे गुणकरके त्रिज्या से भाग करने पर स्वकर्णाग्रा होगी। ॥ २२ ॥
स्मथ भुजानयनश्लोकाभ्यामाह
विषुवद्भायुताकांग्रा याम्ये स्यादुत्तरो भुजः ॥ विषुवत्यां विशोध्योदग्गोले स्याद्वाद्दुरुत्तरः || २३ || विपर्ययाद्भुजो याम्यो भवेत्प्राच्य परान्तरे ॥ माध्याह्निको भुजो नित्यं छाया माध्याह्निकी स्मृता ॥ २४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com