________________
ध्यायः ३.] संस्कृतटीका-भाषाटीकासमेतः । (७७)
तन्मान्दमसकृद्धामं फलं मध्यो दिवाकरः ॥ तस्मादागतस्फुटसूर्यान्मान्दफलं मन्दफलमसकृदनेकवारं वामं व्यस्तं संस्कृतं स्फुटसूर्येऽहर्गणानीतः स्फुटसूर्यः स्यात् । अयमर्थः । स्फुटसूर्यमध्यम प्रकल्प्य पूर्वमन्दोच्चात्प्रागुक्तरीत्या मन्दफलं धनमृणमानीय स्फुटमूर्यऋणं धनं कार्य मध्यमसूर्यः। अस्मादपि मन्दफलं स्पष्टसूर्ये व्यस्तं संस्कृतं मध्यमोऽस्मादपि मन्दफलं स्पष्टे व्यस्त मध्यस्तं मध्यमार्क इति यावदविशेषस्तावदसकृत्साध्योऽर्को मध्योऽहर्गणानीतो भव' तीति । तथाच मध्यमाकोत्स्फुटार्कसाधन एकवारं मन्दफलसंस्कारः स्फुटार्कान्मध्याकैसाधने त्वनेकवारं मन्दफलव्यस्तसंस्कार इति विशेषोऽभिहितः । अत्रोपपत्तिः । मध्यमसूर्यादानीतमन्दफलेन संस्कृतो मध्यः स्फुटोऽर्को भवति । वा तेनैव मन्दफलेन व्यस्तं संस्कृतो मध्यो भवति । अत्र स्फुटार्कान्मध्यार्कसाधने मध्यमज्ञानासम्भवात्तदानीतमन्दफलज्ञानमशक्यं अतः स्फुटसूर्य मध्यम प्रकल्प्यानीतमन्दफलेनाभिमतासबेन स्पष्टोऽर्को व्यस्त संस्कृतो मध्यमासन्नः। अस्मादपि मन्दफलमभिमतासन्नमापि पूर्वस्मात्सूक्ष्मामति यावदविशेषे मध्यार्कसाधितं मन्दफलं भवतीति निरवयं सर्वमुक्तम्॥
भा० टी०-निरयण रवि स्पष्टसे मान्द्यफल निर्णयकरके विपरीतभावसे असकृत् संस्कार करनेसे रविमध्य लाभ होगा । अर्थात् रविस्पष्टको रविमध्यकी समान गिनकर मन्दोच्च संस्कारादिके द्वारा मान्दफल प्राप्त होकर विपरीत संस्कार करनेसे सूर्यकी स्थूल होगा । तिसको मध्य ज्ञानकरके मान्द फल फिर वहीहुई रीतिसे रविस्पष्ट में विपरीत भावकरके संरकार करे। __ अथ मध्याह्न छ, यकर्णयोरानयनं विवक्षुः प्रथमं तात्कालिकनतांशज्ञानं कथयस्तटु कोटिज्ये कार्ये इत्याह
स्वाक्षाकापक्रमयुतिदिवसाम्येऽन्तरमन्यथा ॥
शेष नतांशाः सूर्यस्य तदाहुज्या च कोटिजा ॥२०॥ दिक्साम्य एकदिक्त्वे स्वदेशाक्षांशमध्याह्नकालिकसूर्यक्रांत्यंशयोर्योगः । अन्यथा अत उक्तादेकदिक्त्वौद्वपरीत्येभिन्नदिक्त्वादित्यर्थः । अक्षांशक्रांत्यंशयोरंतरं कार्य शेष संस्कारोत्पन्नं सूर्यस्य मध्याह्ने नतांशास्तेषां नतांशानां भुजरूपाणां ज्या कोटिज्या तदंशा नवतिशुद्धाः कोटिस्तत उत्पन्ना ज्या । चः समुच्चये साध्या । अत्रोपपत्तिः। याम्योत्तरवृत्ते मूर्यस्य मध्याह्ने स्वस्वस्तिकादनन्तरं नतांशा विषुववृत्तपर्यंतमक्षांशाः । विषुववृत्तसूर्ययोरन्तरं क्रांत्यंशाः । अतो दक्षिणकान्तौ क्रान्त्यक्षयोगो नताशा उत्तरक्रान्तो क्रान्त्यूनाक्षोऽक्षोनक्रान्तिर्वा दक्षिणोत्तरनतांशास्तेषां ज्यादृग्भ्यां भुजस्तत्कोटिज्यामहाशंकुः कोटिस्त्रिज्याकर्ण इति च्छायाक्षेत्रे तदंशानां भुजः त्वात् ॥२०॥ __ भा० टी०-निजदेशके अक्षांश और सूर्यन्ति एकांदिशामें हो तो योग, और विपरीत अन्तर करनेसे शेषमाध्याहिक सूर्यकानतांश हैं तिसकी भुजण्या भौर कोटिज्या करे ॥२०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com