SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ध्यायः ३.] संस्कृतटीका-भाषाटीकासमेतः । (७५) ह्रच्छायाकर्णेन भक्ता फलस्य धनु:कला नतानतसज्ञास्ता नतकलादक्षिणे भुजे मध्याइच्छायारूपभुजे प्राच्यपरसूत्रमध्यादक्षिणदिक्स्थे सति । उत्तरदिका उत्तरे भुजे दक्षिणाः । चो विषयव्यवस्थार्थकः । ता नतकलाः सूर्यक्रांतिकलाः प्रागुक्ताः। दिग्मेदे स्वदिशोभिन्नत्वे मिश्रिताः संयुक्ताः साम्येऽभिन्नदिक्त्वे विश्लिष्टा अन्तरिताः । चो विषयव्यवस्थार्थकः । अक्षकला भवन्ति । अत्रानावश्यकभुजसज्ञया भगवतोपपत्तिरुक्ता । तथा हि द्वादशांगुलशङ्ककोटौ मध्याह्नच्छायाकणे वा मध्यच्छायाभुजस्तथा खस्वस्तिकान्मध्याह्नकाले सूर्यस्य याम्योत्तरवृत्ते यदन्तरेण नतत्वं ता नतकलास्तज्ज्या० नतांशज्यामध्याह्नोन्नतांशज्यारूपशङ्को त्रिज्याकणे वा भुज इति मध्याह्नच्छायाकणे कर्णे मध्याह्नच्छायाभुजस्तदा त्रिज्याकणे को भुज इत्यनुपातेन नतज्या तदनुरत्र कला: त्मकत्वान्नतकलास्ता ग्रहसंबद्धा इति छायादिदिग्विपरीतदिकाः । अथ क्रान्त्यांशाक्षाशयोरेकदिक्त्वे योगेन नतांशा इति दक्षिणानतकलादक्षिणक्रान्तिकलाभिहींना अक्षांशा भवन्ति । क्रान्त्यंशाक्षांशयोभिन्नदिक्त्वेऽन्तरेण नतांशा यदि दक्षिणास्तदा क्रान्त्यूना: क्षांशस्य नतत्वादुत्तरक्रान्तियुता अक्षांशाः । यदि तूत्तरास्तदाक्षोनक्रान्ते तत्वान्नतो. त्तरक्रान्तिरक्ष इति सम्यगुपपन्नम् । केचित्तुं भुजग्रहणादभीष्टकाले प्राच्यपरसूत्राच्छायाग्रं यदन्तरेण याम्यमुत्तरं वा भुजस्तं स्वल्पान्तरान्मध्यच्छायां प्रकल्प्य तस्याः कर्ण चानीयोक्तदिशानतालप्तास्ता अभीष्टक्रान्तिसंस्कृता अक्षांशा भवन्तीत्याहुः ॥१८॥१५॥ भा० टी०-मध्यकी छायाही भुज है। तिसको ज्यासे गुणकरके छायाकप से भाग करके धनु निर्णय करनेपर नति होगी। छाया दाक्षणमें हो तो उत्तर नति और उत्तर होनेसे दक्षिण नति होती है। यह अलग दिशामें हो तो सूर्यक्रान्ति में योग करने स्वार्थ मक्ष होगा । सम दिशामें होनेसे वियोग करना चाहिये ॥ १४ ॥ १५ ॥ अथाक्षात्पलमानयनमाह नाभ्योऽक्षज्या च तद्गै प्रोज्झ्य त्रिज्याकृतेः पदम् ॥ लम्बज्यार्कगुणाक्षज्या विषुवदाथ लम्बया ॥ १६ ॥ ताभ्योऽक्षकलाभ्योऽशज्या भवति । चः समुच्चये । अक्षज्यावर्ग त्रिज्यावर्गात्यक्त्वा शेषान्मूलं लम्बज्या । अनन्तरमक्षज्या द्वादशगुणा लम्बया लम्वज्यया गुणनस्य भजनसम्बन्धाद्भक्त्यर्थसिद्धम् । अक्षमा स्यात् । अत्रोपपत्तिः । अक्षकलानां ज्यादज्यातस्यास्त्रिज्या कर्णे भुजत्वात्तदर्गोनात्रिज्यावर्गान्मूलं लम्बज्याकोटिः । तयाक्षज्या भुजस्तदा द्वादशकोटौ को भुज इत्यनुपातेन विषुवच्छायेति ॥ १६ ॥ भा० टी०-मक्षज्यावर्ग त्रिज्यावर्गसे अलग करके अन्तमेंसे लमज्या होता है द्वादशः गुणित अक्षज्या, लम्बज्यासे भाग करनेपर विषुनद्भा होती है ॥ १६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy