________________
(७४) सूर्यसिद्धान्तः
[ तृतीयोऽस्वाभीष्टदेश एवं विषुवती चलितविषुवद्दिनसम्बद्धा रेवत्यासन्नस्याप्युपचाराद्विषुव. सज्ञा तव्यावर्तकमेवमिति । दिनार्धजा माध्यानिकी या यन्मिता द्वादशांगुलशंकोश्छाया दक्षिणोत्तररेखायां निरक्षोत्तरदक्षिणदेशक्रमेणोत्तरस्यां दक्षिणस्यां प्रभायाः दक्षिणोत्तर रेखास्तत्वं विना मध्याह्नसम्भवात्सा तन्मिता तत्र तस्मिन्नभीष्टदेशे विषुवत्प्रभाक्षमा भवति । एतेन द्वादशांगुलशंकुः कोटिः पलभासुजस्तत्कृत्योर्योगपदं कर्ण इत्यक्षकर्णः । कर्णइत्यक्षक्षेत्रं वक्ष्यमाणोपयुक्तं प्रदर्शितम् । तदा सूर्यस्य विषुववृत्तस्थत्वादिषुवत्प्रभति संज्ञोक्ता ॥ १२॥
भा० टी०-इसी प्रकारसे विषुपदिनके मध्याह्नकी छ'या दक्षिणोत्तर रेखामें दिखाई देती है, सेही तहांकी विषुवच्छाया है ॥ १२ ॥ अथ लम्बाक्षयोरानयनमाह
शंकुच्छायाहते त्रिज्ये विषुवकर्णभाजिते ॥
लम्बाक्षज्ये तयोश्चापे लम्बाक्षी दक्षिणी सदा ॥ १३ ॥ त्रिज्ये द्विस्थानस्थे शंकुच्छायाहते एकत्र द्वादशगुणितापरत्र प्रागुक्तया विषुवत्कर्णभाजितोभयत्राक्षकर्णेनं भक्ता फले क्रमेण लम्बज्याक्षज्ये तयोर्ययोर्धनुषी क्रमेण लम्बा. सौ सदोभयगोले दक्षिणदिवस्थौ भवतः । अत्रोपपत्तिः । याम्योत्तरवृत्ते निरक्षस्वदेशपूर्वापरवृत्तयोर्यदन्तरं तदक्षः। याम्योत्तरवृत्ते दक्षिणक्षितिजपदेशाद्विषुववृत्तस्य यदन्तरं तल्लम्बः । उभावूर्ध्वगोले स्वपूर्वापरवृत्तादक्षिणौ तज्ज्ये अक्षलम्बज्ये भुजकोटी त्रिज्या कर्ण इत्यक्षक्षेत्रादक्षकर्णकर्ण द्वादशपलभे कोटिभुजौ तदा 'त्रिज्या कर्ण कावित्यनुपाताभ्यां लम्बाक्षज्ये तद्धनुषी लम्बाक्षावित्युपपन्नम् ॥ १३॥।।
भटी-विषुव दिनके शंकु (१२) और हायाको त्रिज्या ( ३४३८) से भलग गुणकरके कणेसे भाग करनेपर क्रमानुसार लम्बज्या और मक्षज्या होगी तिसका धनु करनसळप और अक्ष होगा ॥ १३ ॥ अथ मध्याह्नच्छायातोऽक्षानयनं श्लोकाभ्यामाह
मध्यच्छायाभुजस्तेन गुणिता त्रिभमौर्विका ॥ स्वकर्णाप्ता धनुलिप्ता नतास्ता दक्षिणे भुजे ॥१४॥ उत्तराश्चोत्तरे याम्यास्ताः सूर्यक्रांतिलिप्तिकाः ॥ दिग्भेदे मिश्रिताः साम्ये विश्लिष्टाश्चाक्षलिप्तिकाः ॥ १५॥ अभीष्टदिने माध्याह्निकी छाया भुजसंज्ञा ज्ञेया । तेन भुजेन त्रिज्यागुणिता मध्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com