________________
ध्यायः ३.] संस्कृतटीका-भाषाटीकासमेतः। (७३) ट्रकान्तर्गते राश्यादिके पश्चिमावलम्बनमनन्तर्गते पूर्वावलम्बनम् । तत्रापि त्रिभान्तर्गसानन्तर्गतत्वक्रमेण चलनं परावर्तनं चेति भुजः साधितस्ततो नवत्यशैः सप्तविंशतिभागास्तदा भुजांशैः क इत्यनुपातेन गुणहरौ नवभिरपवर्त्यभुजांशास्त्रिगुणिता दशभक्ता इति सर्वमुपपन्नम् ॥९॥१०॥ __ भा० टी०-भचक्र महायुगमें ६०० वार पूर्वदिशामें परिलम्बमान होता है। उस संख्याको दिनगणसे गुणकरके भूदिन संख्यासे भाग करनेपर कब्ध संख्या भगणादि होंगे । (भगण छोडकर ) राश्यादि भुज (जैसा पहले कह भाये हैं) करे । भुजको तीनसे गुणकरके और दशसे भाग करनेर भयन होगा । ग्रहमें अयन संस्कार करके क्रान्तिज्या, चर भादि निर्ण य करे । दोनों विषुवमें यह सरलतासे दृग्गोचर होताहै ॥ ९ ॥ १० ॥ अथोक्तस्यान्तरस्य प्रत्यक्षसिद्धत्वमिति सार्द्धश्लोकेनाह
स्फुटं हक्तुल्यतां गच्छेदयने विषुवद्धये ॥ प्राक्चक्र चलित होने छायात्किरणागते ॥
अन्तरांशेरथावृत्तपश्चाच्छेपेस्तथाधिके ॥ ११॥ अयने दक्षिणोत्तरायणसन्धौ विषुवद्धये गोलसन्धौ चलितं चक्रं दृक्तुल्यतां दृष्टिगो. चरतां स्फुटमनायासं गच्छेत् । तत्र प्रत्यक्षतस्तन्मितमन्तरं दृश्यत इत्यर्थः । तथाच सृष्टयादिकाले रेवतीयोगतारासन्नावधि मेषतुलाद्योः कर्कमकराद्योर्विषुवायनप्रवृत्तेरिदान स्वन्यत्र तत्स्वरूपे प्रत्यक्षे इति क्रान्तिवृत्तं चलितमन्यथा तदनुपपत्तेरिति भावः । ननु पूर्वतोऽपरत्र वा चलितमिति कथं ज्ञेयमित्यत आह-प्रागिति । छायाांद्यदिने सूर्यस्यायनदिक्परावर्तनमुदये प्राच्यपरसूत्रस्थत्वं वा तस्मिन्दिनेऽन्यस्मिन्दिने वा मध्याह्न‘च्छायातो वक्ष्यमाणप्रकारेण सूर्यः साध्यस्तस्मादित्यर्थः । करणागते प्रागुक्तप्रकारेणाभीतः स्पष्टः सूर्यस्तस्मिन्नित्यर्थः । न्यूने सति । अन्तरांशैः सूर्ययोरन्तराशैश्चक्रं क्रांति वृत्तं प्राक्पूर्वस्मिंश्चलितमिति ज्ञेयम् । अथ यद्यधिके सति शेषैः सूर्ययोरन्तरांशैश्चकमावृत्त्य परिवृत्त्य पश्चात्पश्चिमाभिमुखं तथा चलितमिति ज्ञेयम् । अत्रोपपत्तिः। छायातो वक्ष्यमाणप्रकारेण सूर्यो वर्तमानसम्पाताद्गणितागतस्तु खेतीयोगतारासन्नाद्यावधितोऽतस्तयोरन्तरमयनांशास्तत्र क्रान्तिवृत्तस्य पूर्वचलने गणितागतार्काच्छायार्कोऽधिको भवति । पश्चिमचलने तु न्यूनो भवतीति सम्यगुपपन्नम् ॥ ११ ॥
भा० टी०-छायागत मर्कसे गणितागत न्यून होनेपर चक्र पूर्वचारी है। अधिक होनेपर पश्चात्गामी अर्थात् पीछे चलनेवाला है । अन्तरांश परिमानमें क्रान्तिवृत्त चलता है ॥ ११॥ अथ चरायुपजीव्यां पलभामाह
एवं विषुवति च्छाया स्वदेशे या दिनार्धजा॥ दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा ॥ १२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com