________________
( ७० )
सूर्यसिद्धान्तः
[ तृतीयोऽपलभाधिकोत्तर भुजसद्भावेन पलमानो भुजोऽग्रेति प्राच्य पर सूत्रादुत्तरभागेऽक्षमाग्रेरेखा भुजमध्ये भवतीति द्वयोररेखयोरन्तरमग्रापलभोन भुजरूपा । एवमुत्तरगोल उत्तरभुजस्यपलभाल्पत्वाडजोनपलभाग्रेति पलभारेखा प्राच्यपरसूत्र | दुत्तरभागस्था भुजरे खातोऽप्यग्रान्तरेणोत्तरदिशीति द्वयोररेवयोरन्तरभुजानपलभारूपं कर्णवृत्ताग्रा । एवं दक्षिणभुजस्य पलभोनाग्रात्वात्पलभायुतो भुजोऽग्रेति प्राच्यपरसूत्राद्धजाग्रपलभाग्रेरेखायोः क्रमेण याम्योत्तरत्वात्तयोरन्तरालपलभाभुजक्य रूपमा पलभायाः शंकुतलानुकवपत्वात्सदान्तरत्वं छायासम्बन्धाद्युक्तम् । गोले शंकुतलस्य दक्षिणत्वाद्रहापरदिशि च्छायासद्भावाच्च । अतएव प्राध्यतरसूत्राद्दक्षिणभागे दक्षिणं भुजवशादक्षमारेखाकल्पना उक्तानुत्पत्त्या सम्यगुत्तरभागे पूर्वापरसूत्रादिति विषुवद्भागेत्यत्र व्याख्यातम् ॥ ७ ॥
भा०टी० - विषुवच्छाया के परिमाण में पूर्वपश्चिम रेखा से दूर एक सम देखा साधन करे । विषुव देखासे इष्टछाया रेखा के अन्तरको अग्रा कहते हैं ॥ ७ ॥
अथ प्रसंगाज्ज्ञातच्छायातः कर्णज्ञानं तच्छुद्धिं चाह -
शंकुच्छायाकृतियुतेर्मूलं कर्णोऽस्य वर्गतः ॥ प्रोज्झ्य शंकुकृतिं मूलं छायाशंकुर्विपर्ययात् ॥ ८ ॥
द्वादशांगुलशंकुच्छाययो वर्गयोगात्पदं छायाकर्णः स्यात् । अथास्य शुद्धिरूपं छायासाधनमाह-अस्येति । छायाकर्णस्य वर्माच्छंकुवर्ग चतुश्चत्वारिंशदधिकं शतं विशोध्य मूलं छाया । प्रकारान्तरेण छायाकर्णशुद्धिमाह - शंकुरिति । विपर्याच्छायासाधनवैपरीत्याच्छाया कर्णवर्गाच्छायावर्ग विशोध्य मूलमित्यर्थः । शंकुर्द्वादशांगुलमितः स्यात् । अत्रोपपत्तिः । द्वादशांगुलशंकु कोटिरक्षभाभुजस्तत्कृत्योर्योगपदं कर्ण इत्यक्षकर्णः । कर्ण इत्याद्यक्ष क्षेत्राद्युक्तरीत्योपपन्नम् । ननु दिक्साधनोत्तरमिष्टप्रभा ग्राकर्णसाधनं भगवता सर्वज्ञेन किमर्थमुक्तमग्रेऽग्रादीनां स्वतंत्रतयोक्तत्वात् । नच विना गणितश्रममग्राज्ञानार्थमिदं युक्तमुक्तमिति वाच्यम् । वक्ष्यमाणभुजज्ञानस्याग्रोपजव्यित्वेन तस्याश्च भुजोपजीव्यत्वेनान्योन्याश्रयात् । गणितज्ञाताग्रायाः पुनः साधनस्य व्यर्थत्वाच्च । नच भुज सूत्रांगुल त्तैरित्यनेनेष्टच्छायावृत्तं ज्ञातमिति न किन्त्वेतदुत्तया दिक्सूत्रसम्पातस्थशंको वृत्तपरिधौ छायावृत्तज्ञानात्तत्पूर्वापर सूत्रांतरे भुजसद्भावाद्विना गणितं भुजोऽपिज्ञात इति नान्यान्याश्रय इति वाच्यम् । तथापि भगवतः सर्वज्ञस्य निष्प्रयोजनत्वोक्तेरनु चितत्वात् । विनाप्रयोजनं मन्दोक्तेरप्यभावाच्च । नहि दिक्साधनेऽग्राभुजादिकमावश्यकं येन तदुक्तियुक्ता । किंच कर्णसाधनस्य गणितोक्त्या वक्ष्यमाणकर्णसाधन तुल्यत्वेनात्र कथनमनुचितम् । नहि दिक्साधनार्थे भाकर्णमित्याहतादिति सिद्धान्तशिरोमण्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com