SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ घ्यायः ३.] संस्कृतटीका-मापाटीकासमेतः । क्तिवदत्र छायाकर्ण उपयुक्तो येन तदुक्तियुक्तेति चतुरस्रमित्यादिश्लोकचतुष्टयमन्यने मन्दबुद्धिनाक्षिप्तं न भगवतोक्तमिति चेन्मैवम् । भुजसाधनोपजीव्यायाया एतदुक्तप्रकारेण सिद्धौ दिशःसम्पसिद्धा इति दिक्साधनशुद्धयर्थमग्रासाधनम् । प्रकारान्तरेणापि वक्ष्यमांणत्रिज्यावृत्तीयाग्रया त्रिज्या लभ्यते तदानयागतया केत्यनुपातेन साधितकर्णासंवादेन शुद्धयवगमार्थ कर्णसाधनं चोक्तम् । अनयाग्रया कर्णस्तदा त्रिज्या वृत्तीयाग्रया क इति फलस्य त्रिज्या तुल्यस्यानयनार्थ वा कर्णसाधनमिति केचित् । वस्तुतस्तु मण्डले छायाप्रवेशनिर्गमस्थानस्थितपूर्वापरबिन्द्रोः प्रत्येकं रेखेति रेखाद्वयसर्वतस्तुल्यान्तरं कार्य तेनान्तरेणान्यतरो बिन्दुश्वाल्पस्तौ पूर्वापरबिन्दू तरेखामध्यस्थानस्य पूर्वापररेखेति । तत्रोभयबिन्दुरेखयोरन्तरांगुलमानं स्वल्पत्वाद्गणयितुमशक्यमतः प्रत्येकरखे प्राच्यपररेखे प्रकल्प्य तन्मध्यकेन्द्रात्पूर्ववृत्तं प्रत्येकमिति वृत्तद्वयं कुर्यात् । तत्र स्वस्ववृत्ते स्वस्थ प्राच्यपररेखास्पृष्टा कार्या ताभ्यां स्वस्वकालिको भुजौ स्वस्ववृत्ते देयौ तदने छायाग्ररेखे स्वस्ववृत्ते कार्य स्वस्वप्राच्यपरसूत्रात्स्वस्ववृत्त उत्तरभागेऽक्षभांगुलान्तरेण रेखे कार्ये ततः स्वस्ववृत्ते स्वस्वतदेखयोरन्तरं स्वस्ववृत्त उभयकालिककर्णवृत्ताग्रे बहुत्वेन गणयितुं शक्ये तदन्तरं पूर्वबिन्दोर्याम्योत्तरमन्तरं कर्णवृत्ताग्रासाधनकथनेनानीतं भुनान्तरस्य बिन्दन्तरत्वात्तस्य चाग्रान्तरत्वेन फलितत्वात् । विषुवदिने गोलभेदे तु भुजा. न्तरमग्रायोग इति बिन्दोर्याम्योत्तरमग्रायोग इति । तेनोक्तरीत्या बिन्दुश्चाल्यस्तसूत्रं पूर्वापरसूत्रं स्फुटमित्याशयेन भगवताग्रा निरूपिता तस्याः शुद्धयर्थ कर्णोऽपि साधित इति तत्त्वम् ॥८॥ भा० टी०-शंकुच्छायावर्ग और शंकुर्ग मिलाकर मूल करनेसे छायाकर्ण होता है । कर्ष वर्गसे शंकुवर्ग हीन करके मूल करनेसे छाया और तिसके विपरीत अर्थात् कर्णवर्ग छाया वर्गहीन करनेपर शंकुकवर्ग होगा ॥ ८ ॥ अथ पूर्वाधिकारे क्रान्ताद्यानयनमुक्तं तत्पूर्वाधिमासावगतग्रहात्केवलान्न साध्यामति श्लोकाभ्यामाह त्रिंशत्कृत्यो युगे भानां चक्रं प्राक्परिलम्बते ॥ तद्गुणाद्भूदिनर्भक्ता युगणायदवाप्यते ॥ ९॥ तदोस्त्रिना दशाप्तांशा विज्ञेया अयनाभिधाः॥ तत्संस्कृतागृहात्क्रान्तिच्छाया चरदलादिकम् ॥ १० ॥ भानां चक्रं राशीनां वृत्तं क्रांतिवृत्तं स्वस्वविक्षेपमितशलाकाग्रपाते नक्षत्रगणैर्युक्तमि. त्यर्थः । युगे महायुगे प्राक्पूर्वविभागे त्रिंशत्कृत्यस्त्रिंशत्संख्याका कृतिविंशतिः षट्रश; Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy