________________
(६८) सूर्यसिद्धांत:
[ तृतीयोsचेत्सत्यम् । दक्षिणोत्तररेखाशुद्धयर्थमेव पूर्वापरबिन्दुस्पृष्टरेखायाः पुनः साधनामति केचित् । वस्तुतस्तु दक्षिणोत्तरपूर्वापर सूत्रसम्पातरूपाभीष्टस्थानाकेन्द्रात्प्रागुक्तवृत्तस्य वक्ष्यमाणोपयोगित्वेनावश्यकत्वात्तस्य च पूर्वापरबिन्द्वन्तरसूत्राधिकव्याससूत्रत्वाद्विन्दन्तरेखाया मूलाग्रयोर्वर्धनीया सा तत्र वृत्ते पूर्वापररेखा भवति । तस्या बिन्दोरुपर्यधश्च वक्रत्वं कदाचित्स्यादतः प्रथममेव पूर्णरेखासिद्धयर्थं बिन्दन्तरसिद्धमत्स्यमुखपुच्छगतरेखाया बिन्द्वन्तराधिकत्वेन तदुत्पन्नमत्स्यरेखाया ऋज्व्याः सुतरामधिकत्वेन पुनः पूर्वापररेखासाधनं युक्ततरमिति तत्त्वम् । एवमेवाव्यवहितं दिग्द्धयान्तरोत्पन्नलघुमत्स्यैश्चतुर्भिः सूत्रैर्वृत्ते कोणदिशः । तदिदमभीष्टस्थानकेन्द्रमण्डले दिगष्टकं सिद्धम् ॥१॥२॥३॥४॥
भा० टी०- जलकी समान इकसार शिलापर अयवा कै. समक्षेत्रमें इष्ट अंगुलके परिमाणका सममण्डल (वृत्त) बँचे । तिसमें १२ अंगुलके. परिमाणका शंकु स्थापन करे तिसकी छायाके अग्रभाग वृत्तको पूर्व या अपराह्नमें जिस स्थानपर स्पर्श करे तहां दो पूर्वीपर संज्ञा बिन्दु विधान करे | तिमि से जिनमें दक्षिण व उत्तरकी रेखाको खेंचें । दक्षिणोत्तरके दो विन्दुओंको केन्द्रकरके व्यासाईके परिमाणसे वृत्तमंकित करनेपर तिमि होगा । तिसंसे पूर्व पश्चिम रेखा बनती है। दिक मध्य मत्स्यसे शिानादि दिक्को. निर्णय करना चहिये ॥ १ ॥२॥ ३ ॥ ४ ॥ अथ दिक्सत्रसम्पातरूपाभीष्टस्थानात्तात्कालिकच्छायाग्रस्थानमाह
चतुरस्त्रं बहिः कुर्यात्सूत्रैर्मध्याद्विनिर्गतैः ॥
भुजसूत्रांगुलस्तत्र दत्तैरिष्टप्रभा स्मृता ॥५॥ मध्यादभीष्टस्थानाद्दिनेखासम्पातरूपाद्विनिर्गतौर्नःसृतैरष्टदिनेखारूपैः । बहिर्दिक्सत्रसम्पातकेन्द्रवृत्तागहिः । अननैव वृत्तकरणं पूर्वमनूक्तं द्योतितम् । अन्यथा बहिरित्यस्यानुपपत्तेः पूर्ववृत्तग्रहणे तु दिग्रेखासम्पातस्य मध्यत्वानुपपत्तेः । चतुरस्रं कोणरेखाधिकसूत्रकर्णद्वयतुल्यं समचतुर्भुजं कुर्यात् । तथा च' तद्दर्शनम् । तत्र चतुरस्र भुजसूत्रांगुलैर्वक्ष्यमाणभुजमितसूत्रस्यांगुलनिर्गमप्रवेशकालिकैर्दत्तैः पूर्वापरसूत्रादर्धज्या बद्दीयमानस्तत्र वृत्ते यस्मिन्प्रदेशे भुजाग्रं तत्प्रदेश इष्टप्रभानिर्गभप्रवेशान्यतरकालिकच्छायायमुक्तम् । प्रतीतिस्तु दिक्सूत्रसम्पातस्थशंकुना ज्ञेया । अत्रोपपत्तिः । वक्ष्यमाणभुजस्य छायानपूर्वापरसूत्रान्तरत्वेन प्रतिपादितत्वादिष्टछायायमुक्तदिशाज्ञानं सम्यक् । चतुरस्रकरणं वक्ष्यमाणाग्रासाधकमाच्यपररेखानुकाररेखाया वृत्तान्तस्तद्भहिर्वा ऋजुत्वास दवमिति ॥५॥
दो वृत्तके छेदमें उत्पन्न मत्स्य कार स्थानका नाम तिमि है ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com