________________
ध्यायः ३.] संस्कृतटीका-भाषाटीकासमेतः ।
(६७) ज्ञानं सूर्योदयास्ताभ्यां तत्र क्षितिजे पूर्वापरवृत्तं कुत्र लग्नामति ज्ञानं तु विषुववृत्तकान्तिवृत्तसम्पातस्थसूर्यस्योदयास्तस्थलज्ञानेन विषुववृत्तस्य पूर्वापरक्षितिजवृत्तसम्पातयोः सम्बद्धत्वात् । अथान्यास्मिन्दिने सूर्यस्योदयास्तावनांशान्तरेण याम्योत्तरे भवत इति । सर्योदयास्तस्थानाभ्यामग्रांशान्तरेणोत्तरयाम्ये पूर्वापरस्थानं भवतीति क्षितिजस्य महवाहूरत्वाच्च तद्दानेन पूर्वापरज्ञानमशक्यमतस्तत्सत्रण स्वाभीष्टप्रदेशे तज्ज्ञानार्थमभीष्टसमस्थलेक्षितिजानुकारं वृत्तं कृतम् । तत्रापि सूर्योदयास्तसमसूत्रणस्थलज्ञानस्य दुःशकत्वाच्छायार्थ शंकुः स्थाप्यः । तथापि सूर्योदये छायानन्त्यावृत्तपरिधौ तदग्रस्पर्शाभावः । परन्तु यथायथा सूर्य ऊर्ध्वं भवति तथातथा छायाह्रासाद्यत्र छाया वृत्तपरिधौ यदा प्रविशति तत्स्थानात्तात्कालिको वक्ष्यमाणभुजो व्यस्तोऽर्धज्याकारेण देयस्तदु. स्क्रमज्यात्र परिधिप्रदेशे लगति तत्र शंकुस्थानस्य पश्चिमा । छायाग्रस्य पूर्वाफ्रसूत्रादुजान्तरेण याम्योत्तरपतनात्सूर्यापरदिशि छायापतनाच्च । एवं दिनापरार्द्ध सूर्यो यथा यथाधःसञ्चरति तथातथा छ.यावृद्धेः शंकुच्छाया वृत्तपरिधौ यत्र यदा निर्गच्छति तात्कालिको वक्ष्यमाणभुजो व्यस्तोऽर्धज्याकारेण तत्स्थानाद्देयस्तद्गुत्क्रमज्या यत्र परिधिप्रदेशे लगति तत्र शंकुस्थ नस्य पूर्वा । तत्सूत्रं पूर्वापरसूत्रम् इदं शङ्कोरुपलक्षणत्वेन ज्ञातं तथा छायोपलक्षणेनापि प्रदेशस्य पूर्वापरसूत्रज्ञानम् । तथाहि । छाया विशति तत्रापरा छायाग्रं निर्गच्छति तत्र पूर्वा । तत्रापि प्रवेशनिर्गमयोरेककालत्वासम्भवाद्यत्कालिका प्रवेशस्तरकाले छायायाः पश्चिमत्वं तत्र वस्तुभूतं तत्काले निर्गमनस्य पूर्वत्वासम्भवः । एवं निर्गमकाले निर्गमस्थानस्य पूर्वत्वं वस्तुभूतं तत्काले निर्गमनस्य पश्चिमत्वासम्भवः । एककालिकसिद्ध्यर्थमुभयोरकेतरं चिद्रं चाल्यं तात्कालिकभुजयोरन्तरण तत्र पूर्वचिद्रं भुजान्तरांगुलैरयनदिशि चाल्यम् । पश्चिमचिह्न वा व्यस्तायनदिशि चाल्यम् । तत्सूत्रं सूत्रमध्यदेशस्य पूर्वापरसूत्रम् । एतन्मध्ये स्थापितशङ्कोश्छायाग्रप्रवेशनिर्गमचिगाभ्यां यथोक्तरीत्या भुजदानेन सिद्धपूर्वापरसूत्रेणाभिन्नत्वात् । तदुक्तं सिद्धान्तशिरोमणी-“तत्कालामपजीवयोस्तु विवराद्भकर्णमित्याहतालम्बज्यासमितांगुलैरयनदिश्यैन्द्री स्फुटा चालिता" इति । तदेतद्भगवता लोकानुकम्पया स्वल्पान्तरत्वादेकतराबन्दुचालनं नोक्तं सुखार्थ किञ्चित्स्थूलावेव निर्गमप्रवेशबिन्दुपूर्वापरा भिधायुक्तौ । एवञ्चाभीष्टं स्थानं प्रवेशनिर्गमसूत्रमध्ये यथा भवति तथानेन प्रकारेण मण्डलकेन्द्रशंकुस्थापनादिनाभष्टिप्रदेशे पूर्वापरदिशे साध्ये इति । तन्मध्ये दक्षिणोत्तररेखाबिन्दुद्वयोत्पन्नमध्यमत्स्यरेखेवेति । याम्योत्तरमध्ये पूर्वापरारेखातादिङ्मध्यमत्स्येनति याम्योत्तरदिशोरत्याद सम्यगुक्तम् । ननु पूर्वापरबिंदुभ्यां मत्स्येन या दक्षिणोत्तररेखा तदग्राभ्यां मत्स्येन रेखा पूर्वापरविन्दुस्पृष्टैवेति पूर्व तस्या एक बिन्दन्तरत्वने सिद्धत्वात्पुनः साधनं व्यर्थम् अन्यथा दक्षिणोत्तररेखाया अप्यसंगतत्वापत्तरित
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com