________________
(६६) सूर्यसिद्धान्तः
[ तृतीयोऽतब बिंदू विधायोभो वृत्ते पूर्वापराभिधौ ॥ तन्मध्ये तिमिना रेखा कर्त्तव्या दक्षिणोत्तरा ॥३॥ याम्योत्तरदिशोमध्ये तिमिना पूर्वपश्चिमा ।
दिङ्मध्यमत्स्यः संसाध्या विदिशस्तद्वदेव हि ॥४॥ तत्र दिक्साधनोपक्रमे प्रथममम्बुसंशुद्धे जलवत्समीकृते शिलाप्रदेशे । अपिवा अथवा तदभावेऽन्यत्र वज्रलेपे चत्वरादौ घुण्टनादिना समस्थाने कृते. शंक्वंगुलै: शड्डस्थांगुलविभागमानगृहीतैरभीष्टसख्याकांगुलैः व्यासार्धरूपैर्वृत्तमवक्रमालिखेत् । सर्वतः केन्द्रादृत्तपरिधिरेखातुल्या स्यात्तथेत्यर्थः। ततस्तन्मध्ये तस्य केन्द्ररूपमध्ये कल्पनया द्वादशसंख्याकांगुलानि तुल्यानि' यस्मिस्तं द्वादशविभागांकितमित्यर्थः । शंकुं समतलमस्तकपरिधिकाष्ठदं स्थापयेत् । ततः पूर्वापरार्धयोदिनस्य प्रथमद्वितीयभागः योस्तच्छायाग्रं स्थापितशंकोश्छायान्तप्रदेशो मण्डलपरिधौ यस्मिन्विभागे स्पृशेत् । दिनस्य प्रथमविभागेऽनुक्षणं छायाह्रासादृत्ते यत्र प्रविशति दिनस्यापराई छायानुक्षण. वृदेवृत्तं यत्र निर्गच्छतीत्यर्थः । तत्र निर्गमनप्रवेशस्थानयोरुभौ दो बिन्दू पूर्वापरसंज्ञौ अमेण वृत्ते परिधिरेखायां कृत्वा तन्मध्ये पूर्वापरविन्दन्तरमध्ये तिमिना मत्स्येन रेखा कार्या सा दक्षिणोत्तररेखा भवति । मत्स्यस्तु बिन्दन्तरालसूत्रमितेन व्यासार्दैन बिन्दुदयकेन्द्रकल्पनेन वृत्तद्वयं निष्पाद्य वृत्तद्वयसंयोगाभ्यां वृत्तद्वयपरिधिविभागाभ्यामन्तर्गतं मत्स्याकारं स्थानं भवति । तत्रैकः संयोगो मुखं बाह्यवृत्तभागसम्मार्जनेनापरसंयोगस्तु पुच्छमितरवृत्तभागद्वयं सम्मार्जनेन । मुखपुच्छावध्य॒ज्वी रेखा दक्षिणोत्तररेखा । तत्र विन्दोः सव्यं रेखाग्रं दक्षिणा दिक् । पश्चिमबिन्दोः सव्यं रेखाग्रमुत्तरा दिक् । अनन्तरं पूर्ववृत्तं मत्स्यश्च सम्मार्जनीयः । शंकुरपि तत्स्थानानिष्कास्य इति केवला दक्षिगोत्तररेखा स्थितेति तात्पर्यम् । दक्षिणोत्तरदिशोमध्यस्थाने तिमिना दक्षिणोत्तररेखामितेन व्यासार्द्धन दक्षिणोत्तरस्थानाभ्यां पूर्ववत्प्रत्येकं वृत्तं विधाय पूर्ववत्सिद्धेन मत्स्ये. नेत्यर्थः । पूर्वपश्चिमा रेखा कार्या । तत्र पूर्वबिन्दोरासन्नं रेखाग्रं पूर्वा पश्चिमबिन्दोरासन्नं रेखा पश्चिमेति मत्स्यसंमार्जनेन केवला पूर्वापररेखा सिद्धा । अथ रेखासंयोगस्थाना. हिक्साधनोपक्रमोक्तं पूर्ववृत्तमुलिखेत्तवृत्तपरिधौ यत्र रेखा लग्ना तत्र दिगिति तद्वत्तमध्यस्य दिक्चतुष्टयं वृत्ते सिद्धम् । तद्वत् । यथा दक्षिणोत्तराभ्यां पूर्वापरा साधिता नत्प्रकारेणेत्यर्थः । एवकारोऽन्यप्रकारनिरासार्थकः । हि निश्चयेन । विदिशकेण दिशो दिशां पूर्वादिसिद्धदिशां ये मध्यमत्स्या अव्यवहितदिग्वयान्तरोत्पन्नाः । लघवस्तैः संसाध्याः सम्यक्प्रकारेण साध्याः रेखवृत्तसंयोगस्थत्वेन ज्ञेयाः । अत्रोपपाचः। क्षितिजपूर्वापरवृत्तसंयोगौ पूर्वापरविभागस्थौ पूर्वापरदिशे तत्र पूर्वापरविभाग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com