SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अध्यायः २. ] संस्कृत टीका - भाषाटीकासमेतः । पतमेक एव परिभ्रमोऽस्त्वित्यतस्तदुत्तरं कथयन्नन्यदप्याहतिथ्यर्द्धभोगं सर्वेषां करणानां प्रकल्पयेत् ॥ एषा स्फुटगतिः प्रोक्ता सूर्यादीनां खचारिणाम् ॥ ६९ ॥ सप्तानां चरकरणानां प्रत्येकं तिथ्यन्तश्वासौ भोगश्च तं तिथ्यर्धकालमितावस्थानं प्रकल्पयेत् । एकत्र निर्णीतः: शास्त्रार्थोऽपरत्र भवतीतिन्यायात् करणत्वेनैषामप्यवस्थानं तत्तुल्यं कुर्यादित्यर्थः । अतएव तिथ्य करणं स्मृतमित्युक्तत्या चान्द्रमासे त्रिशत्तिथ्यात्मक पष्टिकरणानां सन्निवेशाच्चरकरणानामेव परिभ्रमणे प्रतिमासमनियततिथिभोगकं करणं भवतीति तद्वारणकप्रतिमासनियततिथिभोगककरणकसिद्धयर्थ चरकरणानामष्टवारं परिभ्रमणोत्तरमवशिष्टतिथ्योश्चतुर्ष्वर्थेषु स्थिरकरणान्युक्तानीति तात्प र्यम् । तत्रापि कृष्णचतुर्दश्य परार्धतस्तत्कल्पनं तदिच्छानियामकं स्वतन्त्रेच्छस्य नियोगानर्हत्वात् । अथाग्रिमग्रन्थासंगतित्वनिरासार्थमुक्ताधिकारमुपसंहरति - एषेति । हे मय सूर्यादीनां सप्तग्रहाणामेषा दृश्येत्यादिकल्पयेदित्यन्तं या वार्ता सा स्फुटगतिः स्पष्टगतिः स्पष्टक्रिया ज्ञानसम्पादिका प्रोक्ता तुभ्यं मयोक्ता । एतेन स्पष्टाधिकारः परिपूर्तिमास इति सूचितम् ॥ ६९ ॥ मा० टी०-करण भी तिथिको भोगते हैं । इस प्रकार सूर्यादिग्रहों के स्फुटगती कही गई ॥ ६९ ॥ रंगनाथेन रचिते सूर्यसिद्धान्तटिप्पणे ॥ स्पष्टाधिकारः पूर्णोऽयं तद्गूढार्थप्रकाशके ॥ इति श्रीसकलगणकसार्वभौमबल्लालदेवज्ञात्मजरंगनाथगणकविरचिते गूढार्थप्रकाशके स्पष्टाधिकारः संपूर्णः ॥ २ ॥ इति द्वितीयोऽध्यायः ॥ २ ॥ ( ६५ ) शिलातलेऽम्बुसंशुद्धे वज्रलेपेऽपि वा समे ॥ तत्र शंक्कंगुलैरिष्टेः समं मण्डलमालिखेत् ॥ १ ॥ तन्मध्ये स्थापयेच्छंकुं कल्पना द्वादशांगुलम् || तच्छायायं स्पृशेद्यत्र वृत्ते पूर्वापरार्धयोः ॥ २ ॥ अथ तृतीयोऽध्यायः । अथ त्रिप्रश्नाधिकारो व्याख्यायते । तत्र विना प्रश्नं गुरोस्तत्प्रतिपादनेच्छानुदयाद्विना च तदिच्छां छात्राणां तज्ज्ञानासम्भवात्रयाणां दिग्देशकालानां प्रश्ना इति त्रिप्र नव्युत्पत्तेस्तद्दिग्ज्ञानं श्लोकचतुष्टयेनाह Shree Sudharmaswami Gyanbhandar-Umara, Surat ? www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy