________________
ध्यायः २] संस्कृतटीका-भाषाटीकासमेतः। (६३) नैष्यदिनादिकं साध्यम् । अत्रोपपत्तिः । भचक्रभोगेन सप्तविंशतिनक्षत्राण्यश्चिन्यादीनि ग्रहो भुनक्त्यतः सप्तविंशतिनक्षत्राणां चक्रकलाः षट्शतयुतेकविंशतिसहस्रमिता भागस्य तदैकनक्षत्रस्य क इत्यनुपातेनाष्टशतकलाभोगः । एवं तिथेश्चान्द्रमासत्रिंशदंशत्वाचान्द्रमासस्य सूर्यचन्द्रान्तरकभगणसिद्धत्वाच्च । त्रिंशत्तिथीनां चक्रकलाभोगस्त- • दैकतिथेः क इत्यनुपातेन विंशत्यधिकसप्तशतकलाभोगः । अथाष्टशतकलाभिरेकं नक्षत्र तदा ग्रहकलाभिः किमित्यनुपातेन फलमाश्विन्यादीनि ग्रहभुक्तानि शेषकलाग्रहाधिष्ठि. तनक्षत्रस्य गतं भभोगाद्धीनं तस्यैष्यमाभ्यां ग्रहगत्यै दिनं तदाभीष्टकलाभिः किमित्यनुपातेन तस्य गतैष्यदिवसायं भवति । एवं चन्द्राद्दिननक्षत्रं ज्ञेयम् ॥ ६४ ॥
मा० टी०-नक्षत्र भोग ८०० कला, तिथिभोग ७२० कला हैं । ग्रहकलाको ( स्पष्ट राश्यादि)८०० से भाग करके लब्धं संख्या, गत नक्षत्र और मपशेषको स्पष्ट गतिसे भाग करनेपर भोग निर्णीत होता है ॥ ६४ ॥ अथ प्रसंगाद्योगानयनमाह
खीन्दुयोगलिप्ताभ्यो योगाभभोगभाजिताः॥
गता गम्याश्च पष्टिना भुक्तियोगातनाडिकाः॥६५॥ सूर्यवन्द्रयोगस्य राश्यादेकस्य पारभाषया याः कलास्ताभ्यो योगा विष्कमादयो भभोगभाजिता भभोगेन पूर्वोक्तेन विभक्ता भवन्ति । एकैकयोगस्य मभोगमितो भोगः स प्रत्येकं ताभ्योऽपनीय यन्मितीः शुद्धास्तन्मिता योगा गताः । यस्य भोगो न शुध्यति स वतमान इत्यर्थः । कलामभोगभक्ता नप्ता योगास्तदाग्रिमो वर्तमान इति तात्पयम् । तस्य शेषं गतं भोगात्पतितमेष्यं ताभ्यां घटिकाद्यानयनमाह-गता इति । गता एष्याः। चः समुच्चये । कलाः षष्टिगुणिताः कार्यास्ताभ्यो भुक्तियोगाप्तनाडिका रविचन्द्रकलात्मकगत्योर्योगेन भजनालब्धा घटिका गतैष्या भवंति । अत्रोपपत्तिः । सूर्यचन्द्रयोगमितस्य ग्रहस्य नक्षत्राणि विष्कम्भादिसंज्ञानि योगोत्पन्नत्वाद्योगा अतस्तदानयनं पूर्वोक्तवत् । अत एव सूर्यचन्द्रगतियोगतुल्यतद्गत्या षष्टिसाक्नघटिकास्तदा गतैष्यकलाभिः का इत्यनुपातेन गतैष्यघटिकानयनं युक्तमुक्तम् ॥ ६५ ॥
मा० टी०-सूर्य मोर चन्द्रमाका स्फुट मिलाय कला करके ८०० से भाग कानेपर लब्धफल गायोग होगा | अवशिष्टगत और ८०० से वियोग करनेपर गम्य होता है । तिसको ६० से गुण करक भुक्तियोगद्वारा भाग कानेपर गत और गम्य दण्ड होंगे ॥ ६५ ॥ अथ प्रसगात्तिथ्यानयनमाह
अर्कोनचन्द्रलिप्ताभ्यास्तिथयो भोगभाजिताः ॥ गता गम्याश्च षष्टिना नाड्यो भुत्त्यंतरोद्धताः ॥६६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com