________________
( ६२ )
सूर्यसिद्धान्तः
:
[ द्वितीयोऽतक्रमेण दिनरात्रिदले दिनार्धरात्र्यर्धे कालविद्भिरुक्ते । दक्षिणकान्तौ सत्यां विपर्यस्ते दिनरात्रिदले यत्र हीनं तद्दिनार्धं यत्र युतं तद्रात्र्यर्धमित्यर्थः । तुकारात्ते दिनरात्र्यर्षे द्विगुणे दिनक्षपे दिनमा रात्रिमाने ग्रहस्य स्तः । उक्तरीत्या नक्षत्राणामपि दिन रात्रिमाने साध्ये इत्याह - विक्षेपेत्यादि । नक्षत्रध्रुवाणामानीतया क्रान्त्या नक्षत्रविक्षेपेणैकामिन्नादिक्रमेण युक्तयान्तरितयोक्तप्रकारेण सिद्धया स्वके नक्षत्रदिनरात्रिमाने साध्ये इत्यर्थः । अत्रोपपत्तिः । द्वादशांगुलशंकुः कोटिः पलभाभुजोऽकर्णः कर्णः क्रान्तिज्या कोटि: कुज्या भुजोऽग्राकर्ण इत्यक्षक्षेत्रद्वयं प्रसिद्धम् । तत्र द्वादशकोटी पलभाभुजः क्रान्तिज्याकोटी को भुज इत्यनुपातेन कुज्या । तत्स्वरूपं तु निरक्षदेशक्षिीतजस्वदेशक्षितिजान्तरालस्थिताहोरात्रवृत्तप्रदेशस्य युज्याप्रमाणेन ज्येति त्रिज्याप्रमाणेन तज्ज्याचरज्येति द्युज्या प्रमाणेन कुज्या त्रिज्या प्रमाणेन केत्यनुपातेन । चरज्या तद्धनुश्वरासवोऽहोरात्रवृत्त - खंडप्रदेशे निरक्षस्वक्षितिजान्तराल उत्तरगोले : स्वक्षितिजस्य निरक्षक्षितिजादधः स्यत्वा निरक्षाक्षितिजयाम्योत्तरःत्तान्तरालेऽहोरात्रावृत्तचतुर्थांशत्वादहोरात्रासु, चतुर्थांशे चरासवो युता दिनार्थ हीना राज्य दक्षिणगोले स्वक्षितिजस्य निरक्षक्षितिजादूर्ध्वस्थत्वाद्धीना दिनार्ध युता रात्र्यर्धमित्युपपन्नं सर्व क्रान्तिज्येत्यादि ॥ ६१ ॥ ६२ ॥ ६३ ॥
भा०टी०-क्रांतिज्या विषुवच्छाया से गुणकर के १२ से भांग करनेपर क्षितिज्या होगी । क्षितिज्याको त्रिज्यासे गुणकरके दिन के व्यास से भागकरके धनु नियत करनेपर चर प्राणसंख्या होगी ||६१ || अहोरात्र के चौथे भागको दो स्थानों में रखकर कहाहुआ चर प्राण एक. में मिलावे और दूसरे से घटावे | उत्तर क्रांति होने पर योग फल दिनार्द्ध और वियोगफल रात्र्यं - ईमान होगा || ६२ ॥ परंतु दक्षिणक्रांति में उल्टा अर्थात् वियोगफल दिनार्थ और योगफल राज्यर्द्ध होता है। इनको दूना करनेसे दिनादिमान होता है। इस प्रकार नक्षत्रोंके विक्षेपसे क्रांतिका निर्णय करके दिनादिमान निर्णीत होता है ॥ ६३ ॥
अथ ग्रहस्य नक्षत्रानयनमाह
भभोगोऽष्टशतीीलिप्ताः खाश्विशैलास्तथा तिथेः ॥ ग्रहलिप्ता भभोगाप्ता भानि भुक्त्या दिनादिकम् ।। ६४ ।
अष्टशतमिताः कला नक्षत्रभोगः । प्रसङ्गात्तिथिभोगमाह - खाश्विशैला इति । तिथेविंशत्यधिकसप्तशतमिताः कलास्तथा भोग इत्यर्थः । यस्य ग्रहस्य नक्षत्रज्ञानमिष्टं तस्य ग्रहस्य राशय त्रिंशद्वण्या अंशा योज्यास्ते षष्टिगुणिताः कला योज्या इति परिभाषया कला नक्षत्रभोगभक्ताः फलं ग्रहस्य गतनक्षत्राणि शेषं वर्तमाननक्षत्रस्य गत कलास्तस्मात्तस्य गतदिनाद्यानयनमाह - भुक्त्येति । ग्रहस्य कलात्मिकया त्या शेषदिनादिकं गतं भागहरणेन साध्यभेवं शेषोनाद्भोगाद्गतिकलामागै
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com