________________
ध्यायः २.] संस्कृतटीका-भाषाटीकासमेतः । (५९) अन्येषां तु परमशराः शीघ्रोच्चदेवताकृष्टग्रहबिम्बाधिष्ठितकल्पितवृत्ते शीघ्रकर्णव्यासाः लक्षिताः । कथमन्यथा शीघ्रफलसंस्कारेण ग्रहस्य स्पष्टत्वं युक्तम् । ग्रहबिम्बस्य तत्स्थत्वे तत्पातस्यापि तत्स्थत्वं युक्तम् । ग्रहबिम्बाधिष्ठितवृत्ते ग्रहभोगगस्य मन्दस्पष्टत्वेन गणितागतपातान्मन्दस्पष्टाच्छरसाधनमुपपन्नम् । तदुक्तं सिद्धान्तशिरोमणौ " मन्द स्फुटो द्राक्प्रतिमण्डले हि ग्रहो भ्रमत्यत्र च तस्य पातः । पातेन युक्ताद्गणितागतेन मन्दस्फुटाखे चरतः शरोऽस्मात् ॥” इति । तत्र स्पष्टाच्छरसाधनार्थ शीघ्रफलं पाते संस्कृतं शीघ्रफलव्यस्तसंस्कृतस्पष्टग्रहस्य मन्दस्पष्टत्वाद्यथोक्तसंस्कृतपातोने स्पष्टग्रहे पातोनमन्दस्फुटग्रहस्य सिद्धे । अथ बुधशुक्रपातभगणौ वास्तवौ नोक्तौ । तौ तु शीघ्र केंद्रभगणाधिको अतो गणितागतपातयोर्मध्यग्रहोनशीघोचरूपशीघ्रकेंद्रयुतयोदशराशिशुद्धयोः पातत्वम् । तत्र पूर्वपातस्य द्वादशशुद्धत्वाच्छीकेंद्रं चक्रशुद्धं योज्यम् । अतो लाघवाद्गणितागतपातस्य शीघ्नाचोनमध्यग्रहरूपं केंद्रं योज्यम् । अयं पातो मन्दस्पष्टे मन्दफलसंस्कृतमध्यरूपे हीन इति ग्रहयोर्मध्ययो शायथागतमन्दफलसंस्कृत शीघ्रोच्चं पातोनमिति सिद्धम् । तत्रापि मन्दफलं पाते व्यस्तं कृत्वा तदूनं शीघ्रोवं कृतं संस्कृतपातपंक्तयां संस्कृतपातयोर्युक्तत्वात् । अथैतदानीतविक्षेपः कर्णव्यासार्धवृत्तेन त्रिज्यावृत्ते स्फुटग्रहस्थानः अतः कर्णाग्नेऽयं पूर्वानुपातानीतविक्षेपस्तदा त्रिज्याग्रेक इत्यनुपातेन त्रिज्यागुणः कर्णो हरः पूर्व त्रिज्याहर इति त्रिज्ययो शाहजज्यापर मविक्षेपगुणिता शीघ्रकर्णभक्तेति सर्वमुक्तमुपपन्नम् ॥ ५६ ॥ ५७ ॥ __ मा०टी०-मंगल शनि और बृहस्पतिके चतुर्थ संस्कारगत शीघ्रफल पहले ग्रहमें जिसप्रकार संस्कृत हुए हैं । वैसेही इन फलोंको फिर इनहीके पातोंसे संस्कारित करे । बुध और शुक्रके काल में तीसरा मान्द्यफल जिप्त भावसे संस्कारको प्राप्त हुभा है, तिसके विपरीतभावसे उक्तफल तिनके पातों में संस्कार करे । अर्थात् मान्यफल ग्रहमें योग करना हो तो वियोग करे, और वियोग करना हो तो योग करे | चन्द्र, मंगल, शनि और बृहस्पति के स्थानमें स्फुरसे उसके स्पष्टपात अलग करके शुक्र और बुधके स्थानमें शीघ्रसे स्फुटपात हीन करके भुजच्या स्थिर करे । भुजज्याको परमविक्षेप (१ अध्याय ७० श्लोक ) से गुणकरके शेष शीघ्रकर्णके अनुसार भाग करनेपर विक्षेप-स्पष्ट होगा । चंद्रमाके पक्षमें त्रिज्यासे भाग करनेपरही विक्षेप-स्पष्ट होजायगा ॥ १६ ॥ ५७ ॥ अथ दिनरात्रिमानज्ञानार्थ चरानयनं विवक्षुः प्रथमं तदुपयुक्तां स्पष्टक्रांतिमाह
विक्षेपापक्रमेकत्वे क्रान्तिर्विक्षेपसंयुता॥
दिग्भेदे वियुतास्पष्टा भास्करस्य यथागता ॥ ५८॥ यस्य ग्रहस्य स्पष्टक्रांतिरभीष्टा तस्य ग्रहस्यायनांशसंस्कृतस्य भुजज्यातः परमापक्रमज्येत्यादिना क्रांतिरयनांशसंस्कृतग्रहगोलदिका ज्ञेया । तस्य विक्षेपोऽपि पूर्वोक्तप्रका--
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com