________________
(५८) सूर्यसिद्धान्तः
[ द्वितीयोऽभा० टी०-शीघ्रपरािधिका अधिकार होनस शुक्र और मंगल केन्द्रकी सातवीं राशिमही और बृहस्पति बुध अष्टममें और शनि नवम राशिमें वक्रका त्याग करता है ॥ ५५॥ अथ चन्द्रादिग्रहाणां विक्षेपसाधनं श्लोकाभ्यामाह
कुजार्किगुरुपातानां ग्रहवच्छनिजं फलम् ॥ वामं तृतीयकं मान्दं बुधभार्गवयोः फलम् ॥५६॥ स्वपातोनाद्रहाज्जीवा शीघ्राशगुजसोग्ययोः ॥
विक्षेपनान्त्यकर्णाप्ता विक्षेपस्त्रिज्यया विधोः ॥२७॥ भौमशनिगुरूणां ये पाता मध्याधिकारावगतास्तेषां शीघ्रजं फलं स्वग्रहसम्बन्धिश्चतुर्थकर्मस्थशीघ्रफलं पूर्वसिद्धं ग्रहवद्हे यथासंस्कृतं तथा संस्कार्यम् । ग्रहशीघ्रफलं ग्रहे चेद्युतं तदा तत्पाते तदेव फलं याज्यं चेद्धीनं तदा हीनं कार्यमित्यर्थः । बुधशुक्रयोस्तृतीयकं तृतीयकर्मसम्बन्धि मान्दं फलं तत्पातयोविपरीतं संस्कार्यं बुधशुक्रयोमन्दफलं धनमृणं चेत्तत्पातयोस्तदेव फलमृणधनं क्रमेण कार्यमित्यर्थः । अनुक्तत्वाचन्द्रस्य यथागत एव पातो ज्ञेयः । स्पष्टग्रहात्स्वस्य फलसंस्कृतो यः पातस्तेन हीनाडुजज्या । बुधशुक्रयोर्विशेषमाह-शीघ्रादिति । शुक्रबुधयोः शीघ्रोच्चात्पातेन हीनाद्धजज्या न पातो न बुधशुक्राभ्यां भुजज्या। विशेषस्य सामान्यबाधकत्वात् । अर्थात्पूर्वोक्तं चन्द्रभौमगुरुशनीनां सिद्धम् । मध्याधिकारोक्तस्वमध्यमविक्षेपकलाभिगुण्या चतुर्थकर्माण यः शीघ्रकर्णस्तेन भक्ता फलं ग्रहाणां विक्षेपकलाः स्फुटा भवन्ति । ननु चन्द्रस्य शीघ्रकर्णासम्भवात्तत्पातोनतद्धजज्या खभगुणिता केन भाज्यत्यत आह-त्रिज्ययोत । चन्द्रस्य विक्षेपसाधने तादृशी भुजज्या त्रिज्यया भाज्येत्यर्थः । अत्रोपपत्तिः। यथा विषुवत्तारक्रान्तिवृत्तयाम्योत्तरभागौ यदन्तरेण याम्योत्तरसूत्रे सा ध्रुवाभिमुखी क्रान्तिस्तथा क्रान्तिवृत्ताद्विक्षेपवृत्तभागौ यदन्तरेण याम्योत्तरसूत्रे स विक्षेपः कदम्बाभिमुखः । तथा हि । विक्षेपवृत्तानि ग्रहबिबाधिष्ठितानि सूर्यव्यतिरिक्तग्रहाणां षण्णां स्वस्वगोले भिन्नानि सूर्यस्य नित्यं क्रांतिवृत्तस्थत्वमेव तानि क्रान्तिवृत्ते स्वस्वगत्या प्रोतान्येव गच्छन्ति । तत्र विक्षेपक्रान्तिवृत्तसम्पाते पातस्थाने तत्षड्भान्तप्रदेशे च स्थिते ग्रहबिम्बे वृत्तप्रदेशैक्यादन्तराभावेन ग्रहविक्षेपाभावः । क्या तस्माद्रहविम्बं गच्छति तथा ग्रहबिम्बक्रान्तिवृत्तस्थाचह्नयोर्याम्यमुत्तरं वान्तरं क्रांतिवृत्तादहस्य भवति तदेव विक्षेपसज्ञम् । स च पातात्रिभान्तरे ग्रहे मध्याधिकारोक्तः । अन्तगले पातस्थानाद्रहचिह्न क्रान्तिवृत्ते यदन्तरेण तदन्तरं राश्याद्यात्मकं पातोनग्रहरूपं तदुजज्ययानुपातः । त्रिज्याभुजज्यया परमविक्षेपस्तदेष्टया भुजज्यया क इति । एवं चन्द्रस्यैव त्रिज्याव्यासार्धगोले परमशरस्य गणितागतपातस्य च लक्षितत्वात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com