________________
ध्यायः २) संस्कृतीका-भाषाटीकासमेतः । (५७)
भौमाद्या ग्रहाश्चतुर्थकर्मसु केन्द्रांशैः शीघ्रकेन्द्रांशैः कृततुचन्द्ररित्यायुक्तरूपैः क्रमेण वक्रिणो भवन्ति । स्वकीयैः स्वकीयैस्तैः केन्द्रांशैरुक्ततुल्यैश्चक्राबादशराशिभागेभ्यः षष्टियुतशतत्रयेभ्यो विशोधितीनैरवशेषसमानैः स्वकीयैश्चतुर्थकेन्द्रांशैः। तुकारः क्रमार्थे । भौमादयो वक्रत्वं त्यजन्ति । परिवर्ते वारद्वयं भुजतुल्यत्वेन नीचासन्ने मन्दस्पष्टगतितुल्यगतिफलस्य सम्भवादिति ॥ ५३ ॥ ५४॥ __ भा० टी०-शेषशीघ्रकेन्द्र मं. १६४, बु. १४४, बृ. १३०, शु. १६३ और शनि ११५ अंश होनेपर पक्रगति प्रारम्भ होती है ॥ ५३ ॥ शेषशीघ्रकेन्द्र (चक्रसे उपर कहे अंक शोधन करनेपर अर्थात् ) मं. १९६, बु. २१६, बृ. २३०, शु. १९७, श. २४५ अंश होनपर पक्रको त्याग करता है ॥ ५४॥ अथ वक्रान्तभागानामतुल्यत्वे कारणान्तरमप्याह
महत्त्वाच्छीघ्रपरिधेः सप्तमे भृगुभूसुतो ॥ __ अष्टमे जीवशशिजो नवमे तु शनैश्वरः ॥५५॥
शीघ्रकेन्द्रस्य सप्तमे राशौ शुक्रभौमौ वक्रत्वं त्यजतः । अष्टमे राशौ गुरुबुधौ वक्रत्यजनाहौँ । अत्र शुक्रगुर्वोः पूर्वोदेश इतरापेक्षयाभ्यर्हितत्वज्ञापकः । नवमे राशौ शनिर्वऋत्वं त्यजति । तुरेवार्थे । तेन शनिरेव तत्र वक्रत्वं त्यजति नान्ये । अत्र कारणमाह । महत्त्वादिति । अन्येषां शीघ्रपरिधेः प्रागुक्तस्य महत्त्वाच्छनिशीघ्रपरिधेराधिकत्वात् । तथा च परिध्यधिकत्वेन पूर्वमेव वक्रत्यजनमत एव भौमशुक्रयोर्बुधगुरुभ्यां प्रथमोदेशः। शनेस्तु सुतरां बुधगुर्वोः शनितः पूर्वोद्देशः भृगुभूसुतौ जीवशशिजावित्यत्र परिध्यधिकत्वेन शुक्रगुर्वेः प्रथमं केवलमुद्देशो न भागानामल्पत्वक्रम इति भावः । ननु परिध्यधि कत्वे पूर्वपूर्वराशौ वक्रत्यजने कोपपत्तिरिति चेच्छणु । शून्यगतिसम्बद्धशीघ्रकणात्फलांशखाङ्कान्तरेत्यादेविलोमविधिना शीघ्रोच्चगतेः फलकोटिज्यास्याः फलज्यास्यास्त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितमित्यस्य विलोमविधिना भुजफलमस्मात् तद्गुणं भुजकोटिज्ये भगणांशविभाजिते इत्यस्य विलोमप्रकारेण भुजांशज्ञानार्थ भौमादीना भुजज्या उत्तरोत्तरमधिकाः शीघ्रपरिधिभ्यो यथोत्तरमपचयवयो हरेभ्यो लब्धत्वाद्धाराधिकन्यूनत्वाभ्यां फलयोयूनाधिकत्वनिश्चयात् । तासां चापानि भुजभागा यथोत्तरमधिका वक्रारंभे तदन्ते च तुल्या अत एव तृतीयपदे वक्रान्तत्वाटुजभागाः षड्युता यथोत्तरमधिकं शीघ्रकेन्द्रं तेषां वक्रान्ते भवति । वक्रारम्भस्य द्वितीयपद सम्भवाद्धजभागहीनाः षड्राशयस्तेषां वक्रारम्भे यथापचितं केन्द्रं भवति । तत्तूक्तरीत्या भौमशुक्रयोः षष्ठराशौ बुधगुर्वोः पञ्चमराशौ शनेश्चतुर्थराशाविति ज्ञेयम् । इदं भगवता विना चक्रशोधनमापाततः । शीघ्रकेन्द्रराशिज्ञानाद्वक्रान्तज्ञानं लोकानुकम्पार्थमनातप्रयोजनमुक्तमिति ध्येयम् ॥ ५५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com