________________
(५६) सूर्यसिद्धान्तः
[ द्वितीयोऽगत्यधिकत्वात् तदूने शीघ्रोच्चगतौ शीघ्रकेंद्रगतिनाशादधिकस्य गतिफलरूपस्य मंदस्पष्टगतो हीनत्वं पर्यवसन्नम् । कर्णस्याधिकत्वे पूर्वप्रकारफलस्य शीघ्रकेन्द्रगतितो न्यूनत्वात् तदूने शीघ्रोच्चगतौ यन्न्यूनं तदाधिका मन्दस्पष्टगतिः स्पष्टगतिरिति पर्यवसन्नम् । तदत्र शीघ्रोच्चगतिस्थाने शीघ्रकेंद्रगतिग्रहणेन फलं गतिफलमेवोत्पन्नं तं मंदस्पष्टगतो फलकोटिज्यातः कर्णस्याधिकन्यूनत्वक्रमेण धनमृणमित्युपपन्नं कर्ण इत्याद्यून इत्यन्तम् । ऋणफलस्य मन्दस्पष्टगतितोऽधिकत्वे विपरीतशोधनाच्छेषं पश्चिमगतिरेव स्पष्टेति सर्वमनवद्यम् ॥ ५० ॥५१॥ __ भा० ४०-मन्द स्पष्टगति शीव भुक्तिसे अलग करके त्रिज्या भार दूसरे शीघ्रकर्णके अन्त. रसे गुण करे । गुजफळको दूसरे शीघ्रकर्णसे भाग, करनेपर लब्धफल मन्द. स्पष्ट भुक्तिमें। इसरा विकर्ण त्रिज्यासे अधिक होने पर योग और नहीं तो वियोग करनेसे स्पष्टगति होगी । वियोगफल ऋण होनेसे वक्रगति होती है ॥ ५० ॥ ५१ ॥ अथ वक्रगत्युपपत्तिमाह
दूरस्थिताः स्वशीघ्रोच्चाहः शिथिलराश्मिभिः ॥
सव्येतराकृष्टतनुर्भवेदक्रगतिस्तदा ॥ १२ ॥ स्वशीघ्रोच्चाहूरस्थितास्त्रिभाधिकान्तरितो ग्रहो भौमादिकः शिथिलरश्मिभिः शीघ्रो' चदेवताहस्तस्थितग्रहबिम्बप्रोतरज्जुभिः सव्येतराकृष्टतनुर्देवतायाः सव्येतरे वामभागेतरे आकर्षिता तनुः शरीरं विम्बरूपं यस्यासौ यदा तदा वक्रगतिः स्यात् । अयं भावः । त्रिभादूनान्तीरतो ग्रहो वृत्ताकारसूत्रैराशिथिलैदेवतैर्यथाकर्षितुं शक्यते तथा त्रिभाधिकान्तरितो ग्रहो दैवतैर्वृत्ताकारसूत्रैः शिथिलैराकर्षितुं न शक्यतेऽतोऽल्पधनर्णफलस्थाने ग्रहो वक्री भवति । आकर्षणोत्कर्षाभावेन वृत्तमार्गे वस्तुनो नीचगामित्वसंभवादिति ॥५२॥ _मा० टी०-अपने शीघ्रोच्चसे दूर रहकर ग्रह शिथिलरश्मिसे अर्थात् स्वल्पपलसे दाहिने और वाये खिंचते हैं, तिससे वक्रगति होती है ॥ ५२ ॥
अथ यत्केंद्रांशेषु गतिफल मृणं मन्दस्पष्टगतितुल्यं भवति तान् वक्रारंभभागांस्तदंतभागांश्च विना गतिसाधनप्रकारं ग्रहवक्रतदन्तज्ञानार्थं श्लोकाभ्यामाह
कृतर्तुचन्द्रेर्वेदेन्द्रैः शून्यव्येकैर्गुणाष्टिभिः ॥ शररुदैश्चतुर्थेषु केन्द्रोश सुतादयः ॥ ५३॥ भवन्ति वक्रिणस्तैस्तु स्वैः स्वैश्वक्राद्विशोधितः ॥ अवशिष्टांशतुल्यः स्वैः केन्द्ररुझान्त वक्रताम् ॥ ५४॥
, त्रिज्याके स्थानमें दूसरी शीघ्र-फल कोटिज्याके ग्रहण करनेको रंगनाथकी सम्माति है ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com