________________
ध्यायः २] संस्कृतटीका-भाषाटीकासमेतः पूर्वफलादग्रिमं फलं न्यून हीनमिति फलांतरं गतावृणम् । धनफलापचयस्तु कर्कादितः प्राक् त्रिभऋणफलापचयस्तु मेषादितः प्राक्त्रिम इति मकरादिकेन्द्रे गतिफलमृणं सिद्धम् ॥ ४८ ॥४९॥ __ भा० टी०-शेष मन्द संस्कारके स्थानमें दोान्तरको भुक्तिद्वारा गुण करके २२५ से भाग करे । भागफलको मान्यस्फुट परिधिसे गुणकरके ३६० द्वारा भाग करनेपर कलादिफल होता है। कर्कटादिकेन्द्र भुक्तिमें धन और मकरादिवेन्द्र, पियोग करनेपर मन्दगति होगी ॥ ४८ ॥ ४९ ॥ अथ श्लोकाभ्यां स्पष्टगतिसाधनमाहमंदस्फुटीकृतां भुक्तिं प्रोज्य शीघ्रोचभुक्तितः ॥ तच्छेषं विवरणाथ हन्यात्रिज्यान्त्यकर्णयोः ॥५०॥ चलकर्णहृतं भुक्तो कर्णो त्रिज्याधिके धनम् ॥
ऋणमूनेऽधिक प्रोज्ड्य शेषं वक्रगतिर्भवेत् ॥५१॥ मन्दस्पष्टां गति प्राक्सिद्धां शीघ्रोच्चगतेः पातयित्वा तत्रावशिष्टं त्रिज्यान्त्यकर्णयोस्त्रिराशिज्याद्वितीयशीघ्रकर्णयोर्ग्रन्थान्तरैकवाक्यताथै त्रिज्याशब्देन द्वितीयशीघ्रफलकोटिज्याग्राह्यति ध्येयम् । अन्तरेण गुणयेत् । तत्र यत् सिद्धं तच्छीघ्रकर्णेन द्वितीयन भक्तं फलं मन्दस्पष्टगतौ द्वितीयशीघ्रकर्णे त्रिज्याधिके गृहीतफलकोटिज्यांतोऽधिके सति होने च सति धनमृणं क्रमेण कार्य स्पष्टगतिः स्यात् । ननु यदा मन्दस्पष्टगतितो गतिशीघ्रफलमधिकं तदा मन्दस्पष्टगतौ फलमूनं न स्यादिति तत्र स्पष्टगतिज्ञानं कथम् । न चैतदसम्भव इति वाच्यम् । नीचासन्ने ग्रहे फलकोटिज्याशघ्रिकर्णान्तराच्छीघ्रकर्णस्य न्यूनत्वात्फलस्यावश्यं मन्दस्पष्टगत्यधिकत्वसम्भवादित्यत आह । अधिक इति । मन्दस्पष्टगतिः। अधिक फले पातायत्वा शेषं वक्रगतिविपरीतगतिः । पश्चिमगतिः स्याल तथा च न क्षतिः । अत्रोपपत्तिः । “फलांशखाङ्कान्तरशिञ्जिनीनी द्राकेन्द्रभुक्ति: श्रुतिहद्विशोध्या । स्वशीघ्रभुक्तेः स्फुटखेटभुक्तिः शेषं च वक्रारिपरीतशुद्धौ ॥ " इति सिद्धांतशिरोमणौ वृद्धवसिष्ठसिद्धान्तोक्तेः सूक्ष्मप्रकारस्तस्योपपत्तिस्तु तट्टीकायां व्यक्ता तत्र द्राक्केंद्रभुक्त्यर्थं प्रथमार्धमुक्तम् । इयं गतिः फलकोटिज्यया गुण्या कर्णभक्ता फलं स्वशीघ्रोच्चगतेः शोध्यम् । तत्र प्रथममेव समच्छेदपूर्वकशोधनार्थ शीघ्रोच्चगतेः कर्णो गुणः । तत्रापि शीघ्रोच्चगतेः केंद्रग्रहगतियोगरूपत्वात्खण्डद्वयं केन्द्रगतावेव फलं हीनं कृतामति कर्णगुणितकेंद्रगतिफलकोटिज्यागुणितकेंद्रगत्योरंतरं तत्रापि गुणितयोरेंत रेऽन्तरे वा गुणिते समत्वाल्लाघवाच्च फलकोटिज्याकर्णीतरेण केन्द्रगतिर्गणिता कर्णभक्ते। ति तच्छेषमित्यादि हृतमित्यंतमुपपन्नम् । अथ फलकोटिज्यातुल्यकणे मुख्यप्रकारेण गतेमंदस्पष्टगतितुल्यतया सिद्धत्वात् । फलाभावः कर्णस्य न्यूनत्वे फलस्य शीघ्रकेंद्र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com