________________
(५४) सूर्यासद्धान्तः
[द्वितीयोऽकेंद्रगत्योपपन्नमित्यनेन सूर्यादिग्रहाणां विचंद्राणां मंदोचगतेरत्यल्पत्वात्स्वगत्यैव गतिफलमुक्तम् । तत्र चंद्रस्य तथा साधने वखंतरपातात्तस्य मंदोच्चगत्यूनस्वगतिरूपकेंद्रगतेः फल साधितं गतिफलं यद्गतेः साध्यं तद्गतावेव संस्कार्यमिति वक्ष्यमाणरीतिव्युदासाय चंद्रभुक्तावित्युक्तमन्यथा केंद्रगतरेव स्फुटत्वं स्यान्न चन्द्रगतेरिति ॥ ४७ ॥
भा ०टी०-चंद्रभुक्ति तिसकी मन्दोच्चभुक्ति अलग करके ( नीचे कहे अनुसार) दोयातरसाधन करके मध्यगतिसे योग या वियोग करने पर स्पष्टगति होती है ॥ ४७ ॥ अथ ग्रहाणां मंदस्पष्टगतिवासनासूचनपूर्वगतिफलानयनपूर्विका श्लोकाभ्यामाह
ग्रहमुक्तेः फलं कार्य ग्रहवन्मन्दकर्मणि ॥ दोान्तरगुणा भुक्तिस्तत्त्वनेत्रोदृता पुनः॥ १८॥ स्वमन्दपरिधिक्षुण्णा भगणांशोद्धता कलाः॥
कदिौ तु धनं तत्र मकरादावृणं स्मृतम् ॥४९॥ मंदकर्माण गतिमंदफलक्रियानिमित्तमित्यर्थः । ग्रहवद्ग्रहमंदफलानयनरीत्या परिधिगुणनभगणांशभजनाप्तचापमित्यात्मिकया ग्रहगतेः सकाशात्फलं ग्रहमंदगतिफल साध्यम् । यथा ग्रहमंदफलं केंद्रभुजज्यातः साधितं तथेदं गतिफलं ग्रहगतेः साध्यमित्यर्थः । तथाहि ग्रहमंदफलांतरस्यैकदिनान्तरीयस्य ग्रहगतिमंदफलत्वाद्धजज्ययोरेकदि. नांतरयोरंतरात्फलं मन्दगतिफलं पर्यवसितं तत्र केंद्रयोरंतरस्य केंद्रगतित्वात् । तज्ज्ययोरंतरं तत्त्वाश्विप्रमाणेनोक्तज्यापिण्डांतरं गतिकलापरिणामितं भवति । तदेवाह । दोातरगुणोत । ग्रहमध्यगतिः केंद्रगतिरूपा । उच्चगतेरत्यल्पत्वात् । दोयातरगुणा भुजज्यानयनावसरे यज्ज्यापिण्डांतरं तेन गुणितन पञ्चाकृतिभिर्भक्ता पुनरनंतरमित्यर्थः । ग्रहमदपरिधिना स्फुटेन गुणिता पष्टियुतशतत्रयेण भक्ता फलं गतिमन्दफलकलाः । यद्यपि गतिज्यातः फलज्यानयनं कृत्वा तच्चापं गतिफलं समुचितम् । तथापि ग्रहगते. स्तत्त्वाश्विभ्यो न्यूनत्वाज्ज्याचापयोस्तुल्यत्वेन तदनुक्तावक्षतिः। चंद्रस्य तु स्वल्पांतरात्तकरणमुपेक्षितम् । मंदस्पष्टगतिसिद्धयर्थ मध्यगतौ फलसंस्कारमाह-कर्कादाविति । तत्र ग्रहमध्यगतौ पूर्वानीतफलं कर्कादिषड्भांतर्गतकेंद्रे धनं मकरादिषड्भांतरगतकेंद्र ऋणमुक्तम् । तुकारान्मंदस्पष्टगतिः सिद्धा भवतीत्यर्थः । अत्रोपपत्तिः । ऋणफलोपचये पूर्वफलादनिमफलमधिकं हीनमिति फलांतरं गतावृणम् । ऋणफलापचये पूर्वफलादग्रिमफलं न्यून हीनमिति फलांतरं गतौ धनम् । धनफलेपचये, पूर्वफलादानमफलमधिकं युतमिति फलांतरं गतौ धनम् । ऋणफलापचयस्तु मकरादितः प्रावित्रिभे। धनफलोपचयस्तु तुलादितः प्रावित्रभ इति कर्कादिकेंद्रे गतिफलं धनम् । फलापचये
१ दोव्न्तर अर्थात् भुजज्यान्तर । केन्द्रज्या साधनकालके समय ३१ लोकमें जिसको गत और गम्य ब्यापिण्डका- अन्तर कहा गया है ||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com