________________
ध्यायः २.] संस्कृतटीका-भाषाटीकासमेतः। (५३) अथ ग्रहाणां भुजांतरफलमाह
अर्कबाहुफलाभ्यस्ता ग्रहमुक्तिविभाजिता ॥
भचक्रकलिकाभिस्तु लिप्ताः कार्या ग्रहेऽवत् ॥ ४६॥ स्पष्टा सूर्यादिग्रहगतिः सूर्यस्त्र भुजफलेन मंदफलेन कलात्मकेन गुणिता द्वादश राशिकलाभिः षट्शतयुतै कविंशतिसहस्रमिताभिर्भक्ता प्राप्तफलकला ग्रहे सूर्यादग्रहेकवत् सूर्यमंदफलधनर्णशादित्यर्थः । कार्याः तुकाराद्धनर्णं संस्कायीः । अत्रोपपत्तिः । अहर्गणस्यैकरूपमध्यममानेन सत्त्वात्तदुत्पन्नग्रहाणां मध्यममानेन यदर्धरात्रं तात्कालिकत्वं सिद्धम् । मध्यममानार्द्धरात्रे तु मध्यमसूर्यमितक्रान्तिवृत्तप्रदेशोऽधोयाम्योत्तरवृत्ते भवति । अस्मात्कालात्स्पष्टार्द्धरात्रं स्पष्टसूर्यमितक्रान्तिवृत्तप्रदेशाधों याम्योत्तरवृत्तसंयोगरूपं मन्दफलधनर्णक्रमेणानन्तरपूर्वकाले भवति । अतो मन्दफलकलाभोगसम्बन्धिकालेन ग्रहोऽनन्तरपूर्वकालयाश्वाल्पः स्पष्टार्द्धरात्रसमये भवति । एते. नानेन कर्मणा स्फुटार्धरात्र लीनग्रहाः क्रियन्ते । सूर्यश्च स्फुटार्द्धरात्रकालीन एवातः सूर्यस्य नायं संस्कार इति पर्वतोक्तं निरस्तम् । सूर्यव्यतिरिक्तग्रहामध्यार्धरात्रे सूर्यस्तु स्फुटार्धरात्र इत्यत्राहगणोत्पन्नत्वेन सर्वेषामेककालिकत्वसिद्धहेत्वभावादिति । तत्र मन्दफलकलानां कालस्त्वेकराशि कलाभिः सायनस्पष्टाकोकान्तराश्युदयासवो लभ्यन्ते तदा मन्दफलकलाभिः इत्यनुपातेन ततोऽहोरात्रासुभिर्गतिकलास्तदा फलकलासुभिः का इति मन्दफलकलाग्रहे धनर्णमन्दफलवशादन] कार्या इति सिद्धम् । तत्रापि भगवता लोकानुकम्पया स्वल्पान्तरेग नक्षत्रदिने ग्रहगतिभोगमङ्गीकृत्य चक्रकलापरिवर्तात्मकनाक्षत्राहोरात्रेण गतिकलास्तदा सूर्यमन्दफलकलाभ्रमणेन का इत्येकानुपातालाघवादानीताश्चालनकला इत्युपपन्नम् ॥४६॥
मा०टी०-सूर्य भुजमान्य-पल ग्रह-मुक्तिको गुणकरके २१६०० द्वारा भाग करके लब्धकलादि ग्रहों में संस्कार क ना चाहिये । अर्थात् सूर्य स्फुटकालमें भुजफल मिलानेसे मिलाने और अलग (धटाने ) कर देनेपर वियोग करना चाहिये ॥ ४६ ॥ अथ स्पष्टगति विवक्षुश्चन्द्रस्य प्रथमं विशेषमाह
स्वमन्दभुक्तिसं शुद्धा मध्यभुक्तिनिशापतेः ॥
दोव्न्तरादिकं कृत्वा भुक्तावृणधनं भवेत् ॥ ४७॥ ग्रहगतिसाधने वक्ष्यमाणे गतिफलं ग्रहगतेः साधितं तथा चन्द्रगतेः चन्द्रगतिफलं न साध्यं किन्तु चन्द्रस्य मध्यमगतिः स्वस्य चन्द्रस्य मन्दं मंदोचं तस्य दिनगत्या. हीना कार्या तादृशगतेः सकाशादोज्यांतरादिकं दोज्यांतरमादिभूतं यस्यैतादृशं गतिफलं वक्ष्यमाणप्रकारे दोतिर्गुणा भुक्तिरित्यादौ दोयाँतरादेव गतिफलोत्पत्तेः । सिद्धं कृत्वा चंद्रमध्यमगतावृणधनं वक्ष्यमाणरीत्या भवति । अत्रोपपत्तिः। वक्ष्यमाणं गतिफल १ भचक्रकलिकाभिः स्युलिप्ताः कार्या इति वा पाठः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com