________________
(५२)
सूर्यसिद्धान्तः
अथात्रापि विशेषमाह -
मध्ये शीघ्र फलस्यार्धं मान्दमर्धफलं तथा ॥ मध्यग्रहे मन्दफलं सकलं शैयमेवच ॥ ४४ ॥
[ द्वितीयोs
मध्यग्रहे स्वसाधितशीघ्रफलस्यार्ध संस्कार्यम् । अस्मात्साधितं मन्दसम्बन्ध्यर्धफलं साधितमन्दफलस्यार्धमित्यर्थः । तथा यस्मात्साधितं तस्यैव संस्कार्यम् । शीघ्रफलार्धसंस्कृते संस्कार्यमिति फलितार्थः । अस्मात् साधितं मन्दफलं सम्पूर्ण मध्यग्रहे संस्कार्यं मन्दस्पष्टो भवति । अस्मात्साधितं शीघ्रफलं संपूर्णम् । चः समुच्चये । तेन मन्दस्पष्टे संस्कार्यम् । एवकारादुक्तरीत्या सिद्धो ग्रहः स्पष्टो नान्यथेति । अत्रोपपत्तिः । मन्दफलं स्फुटसाधितं वास्तवं स्फुटस्तु मन्दफलसापेक्ष इत्यनोऽन्याश्रयात्सूक्ष्ममन्दफलसाधनशक्यमपि भगवता तदासन्नसाधनार्थमर्धस्फुटादेव मन्दफलं साधितं मध्यग्रहसाधितमन्तफलापेक्षया सूक्ष्मम् । अर्धस्फुटस्तु फलं द्वयार्धसंस्कृतो मध्यग्रहः । अत्रापि मन्दफलस्यार्धं शीघ्रफलार्धसंस्कृता त्किञ्चित्सूक्ष्मत्वार्थ साधितमित्युपपन्नं मध्ये शीघ्र फलस्येत्यादि ॥ ४४ ॥
भ०
टी० - ग्रहमध्यमै शीघ्रफटका अर्द्धसंस्कार करे ( संस्कारका भई मिलाना या अलग करना है - ४५ श्लोक के अनुसार ) शैघ्यार्द्ध संस्कृत मध्यानुसार, मन्दफलार्द्ध - फिर शैन्यार्द्धसंस्कृत मध्यमें संस्कार करने से शीघ्रार्द्ध- मन्दार्द्ध-संस्कृत मध्य होगा शीघ्रार्द्ध मन्दार्द्ध संस्कृत मध्यानुसारसे फिर दूसरा मन्दफल निर्णय करे । मन्दफल ग्रहमध्य में संस्कार करे । यह शेष- मन्दफल- संस्कृत - मध्यानुसार से शीघ्रफल साधन करके शेष - मन्द-फल- संस्कृ· संस्कार करनेपर स्फुट होगा ॥ ४४ ॥
ननु फलयोः संस्कारः कथं कार्य इत्यत आहअजादिकेन्द्रे सर्वेषां त्रे मन्देि च कर्मणि ॥
धनं ग्रहाणां लिप्तादि तुलादावृणमेव च ॥ ४५ ॥
सर्वेषां ग्रहाणां शैत्रे कर्मणि मान्दे कर्मणि । चकारः समुच्चये । कलात्मकं फलं मेषादिषड्भान्तर्गतकेन्द्रे युतं कार्यं तुलादिषड्भान्तर्गतकेन्द्रे हीनं कार्यम् । चकारो व्यव स्थार्थकः । एवकारः फलयोरानयन प्रकारभेदेऽपि धनर्णरीतिभेदव्यवच्छेदार्यकः । यत्रोपपत्तिः । पूर्वाकर्षणे ग्रहस्य फलं धनं पश्चादाकर्षण ऋणमिति प्रागुक्तम् । तत्र ग्रहादुच्चपर्यंतं केंद्रे गृहीते पूर्वाकर्षणे मेषादिकेंद्रं भवति पश्चादाकर्षण तुलादि । केंद्रं मवतीति तथोक्तमुपपन्नम् ॥ ४५ ॥
भा० टी० - मेषादि केन्द्र में ग्रहों के शीघ्र और मन्द संस्कार योग और तुलादिकेन्द्र में फळ चला ) वियोग करनी चाहिये ॥ ४५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com