________________
भ्यायः २.] संस्कृतटीका-भाषाटीकासमेतः । (५१) चोचसझे पूर्वरीत्या शीघ्रोच्चस्थानाच्छाम्रकेन्द्रान्तरेण कक्षामार्गवैपरीत्येन ग्रहबिम्ब भवति । तत्र पूर्ववत्कोटिफलभुजफले कोटिभुजौ कक्षास्थतिर्यग्रेखातः शीघ्रनीचोचवृत्ततिर्यग्व्यासरेखात्रिज्यान्तरेणेति त्रिज्याकोटिफलयोगो मकरादौ । कर्कादौ कोटिफलोनत्रिज्याशीघ्रनीचोच्चपरिधिस्थग्रहकक्षांतिर्यग्रेखयोरंतररज्जुसूत्ररूपा कोटिः । कोटिमूलमध्ययोरन्तरं कक्षा तिर्यग्रेखान्तर्गतं भुजफलतुल्यं भुजो ग्रहभूमध्यस्थसूत्रं तिर्यकर्णः । कोटिभुजफलयोर्वर्गयोगमूलं ततः कक्षायां कर्णसूत्रं यत्र लग्नं तत्र स्पष्टो ग्रहभोग: कक्षामध्यसूत्रादहसत्तात्स्पष्टभोगस्थानपर्यन्तमर्धज्याकारं सूत्रं शीघ्रफलज्याशीघ्रकर्णाग्रे भुजफलं तदा त्रिज्याने किमित्यनुपातज्ञाता । अस्याश्चापं मन्दस्पष्टस्पष्टग्रहभोगस्थानयोरन्तररूपं शीघ्रफलम् । अथ नीचोचवृत्तमध्यज्ञानाय मन्दस्पष्टज्ञानमावश्यकम् । ततः शीघ्रफलसंस्कारण स्पष्टज्ञानम् । तत्र स्फुटसाधितमन्दफलसंस्कृतमध्यग्रहो मन्दस्फुटः सूक्ष्म इति पूर्व मध्यग्रहस्यासन्नस्फुटत्वसिद्धयर्थ फलयोः संस्कार आवश्यकस्तत्रापि प्रथमं मन्दफलं. शीघ्रफलसंस्कृतान्मध्यग्रहसाधितमन्दफलापेक्षया 'मुक्ष्ममिति प्रथमं शीघ्रफलसंस्कृतमध्यग्रहान्मन्दफलं शीघ्रफलसंस्कृतमध्यग्रहे संस्कार्य स्फुटासन्नो भवति ।। ४० ॥४१॥ ४२ ॥ __ भा० टी०-शीघ्र कोटिफल मकरादि ६ राशिम त्रिज्यामें योग और कर्कादिमें वियोग करना होता है इस संख्याके वर्गमें, शैघ्य भुजफलवर्ग योग करके मूल निकालनेसे शीघ्र- . कर्ण होगा शघ्र भुजफलको त्रिज्यासे गुणकरके शीघ्रकर्णद्वारा माग करनेपर जो लब्ध हो तत्परिमाणानुसार धनुनिर्णय करनेपर शीघ्रफल होगा | यह शीघ्रफल भौमादिके प्रथम मौर चतुर्थ संस्कार में प्रयोजनीय है ॥ ४० ॥ ४१ ॥ ४२ ॥
ननु सूर्येन्दोः शीघ्रफलाभावात्कथं स्पष्टत्वं भवतीत्यतस्तदुत्तरं वदन्नतदाये कुजाः। दीनामित्यर्थ स्फुटयाति
मान्दं कमैकमर्केन्द्रो मादीनामथोच्यते ॥
शघ्यं मान्दं पुनर्मान्दं शैघ्यं चत्वार्यनुक्रमात् ॥ ४३ ॥ सूर्यचन्द्रयोर्मान्दं कमैकं तथा चानयोः शीघ्रफलाभावात्केवलेन मन्दफलेनैव स्पष्टस्वम् । एकमित्यनेन सकृन्मान्दं फलं साध्यं मध्यग्रहेणैव मन्दनीचोच्चमण्डलमध्यज्ञानान कर्मान्तरापेक्षेत्युपपत्तिः स्पष्टा । अथानन्तरं भौमादीनामुच्यते । प्रागुक्तं स्फुटतया कथ्यते । तदाह शैघ्यमिति । प्रथमतो मध्यग्रहात्साधितशीघ्रफलं मध्यग्रहे संस्कार्यमस्मान्मन्दफलमस्यैव संस्कार्यमस्मात्पुनर्दितीयवारं मन्दफलं साधितं मध्यग्रहे संस्कार्य मन्दः स्पष्टो भवति । अस्मादपि शीघ्रफलं साधितमस्यैव संस्कार्यमेवमनुक्रमाचत्वारि कर्माणि भवन्तीति प्रागुक्ततात्पर्यम् ॥ ४३ ॥
भा० टी०-सूर्य और चंद्रमाका मान्द्यकर्म एक संस्कार है भौमादिके शैघ्य, मान्द्य, पुन मन्द्यि, और पिछला घ्य क्रमशः यह चार संस्कार हैं ॥ ४३ ॥
१ शीघ्रफलके साधनकालमें शौनकेंद्र और शीग्रपरिधि आदिका व्यवहार होता है।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com