________________
(५०) सूर्यासद्धान्तः
[द्वितीयोऽखासक्ततद्वृत्तप्रदेशरूपोच्चस्थानात्केन्द्रान्तरेण कक्षाविपरीतमार्गेण तदृत्तपरिधौ ग्रहो भवति । तस्मिनीचोचवृत्त ऊर्ध्वरेखाग्रहयोस्तिर्यगन्तरसूत्रमर्धज्याकारं परमफलज्यानुरुद्धं भुजफलं तस्मिन्नेव वृत्ते व्यासमिततिर्यग्रेखाग्रहयोरन्तरमूर्ध्वाधरमर्धज्याकारं परमफलज्यानुरुद्धं कोटिफलम् । एते तंत्र कक्षास्थभुजज्याकोटिज्यावद्धनकोटिरूपे इति कक्षास्थभगणांशप्रमाणे ते भुजज्याकोटिज्यारूपे भुजकोटी तदा कक्षास्थभागप्रमाणानुरुद्धप्रागुक्तनीचोचपरिधिमागैः केत्यनुपातेन फलवृत्तस्थत्त्वाद्धजकोटिफले । तत्र नीचोच्चपरिधिवृत्तस्थग्रहमध्यसूत्रं कर्णरूपं कक्षावृत्ते यत्र लग्नं तत्र स्पष्टो ग्रहभोगः । नीचवृत्तमध्यस्पष्टग्रहमोगस्थानयोः । कक्षावृत्ते यदंतरांशमानं तत्फलं तदर्धज्यातिर्यक्सूत्रं मध्यग्रहस्थोर्ध्वाधररेखारूपमध्यसत्रात्स्पष्टग्रहभोगस्थानासक्तं फलं ज्या । कर्णाग्रे भुजफलं तदा त्रिज्याने किमित्येतदनुपातावगतास्वाश्चापं फलम् । तत्र मन्दफलज्या भुजफ. लरूपा कर्णानुपातोपेक्षया भगवतांगीकृता । मन्दकर्णस्य त्रिज्यासन्नत्वेन स्वल्पान्तरेण त्रिज्यातुल्यत्वेनांगीकारात् । तचापं मन्दफलमित्युपपन्नं सर्वमुक्तं बोधार्थ छेद्यकन्यासश्च यथा ॥ ३९ ॥
भा० टी०-स्फुट परिधिको भुज भोर कोटिज्यासे गुणकरके ३६० से भाग करने पर भुन मौर केट.फल होगा। भुजज्याका धनुनिर्णय होजानेपर कछादि मान्इफल होगा ॥ ३९ ॥ अथ शीघ्रफलं श्लोकत्रयेणाह
शेध्यं कोटिफलं केन्द्र मकरादो धनं स्मृतम् ॥ संशोध्यं तु त्रिजीवायां कर्कादौ कोटिजं फलम् ॥ ४० ॥ तबाहुफलवगैक्यान्मूलं कर्णश्चलाभिधः ॥ त्रिज्याभ्यस्तंभुजफलं चलकर्णविभाजितम् ॥४१॥ लब्धस्य चापंलिप्तादिफलं शैध्यमिदं स्मृतम् ॥
एतदाये कुजादीनां चतुर्थे चैव कर्मणि ॥ ४२ ॥ शीघ्रसम्बन्धिकोटिफलं मकरादिषड्भे शीघ्रकेन्द्रे त्रिज्यायां योज्यमुक्तम् । कर्कादिषडमे....(?) शीघ्रकेन्द्रे कोट्युत्पन्नं फलं त्रिज्यायां हीनं कार्यम् । तुर्विशेषे । तेन मन्दकर्मण्येतक्रियानिरासः। कोटिफलसंस्कृतत्रिज्याभुजफलयोर्वर्गयोर्योगान्मूलं शीघ्रसञ्ज्ञः कर्णः । भुजफलं त्रिज्यया गुण्यं शीघ्रकर्णेन भक्तं फलस्य धनुःकलादि । इदं सिद्धं शीघ्रसम्बन्धिफलं कथितम् । भौमादीनामेतच्छीघ्रफलमाद्ये प्रथमे कर्माण चतुर्थे कमणि । चः समुच्चये । कार्यगे चकाराद्वितीयतृतीयकमणोर्नेत्यर्थः । अर्थात्तत्र मन्दपलं संस्कार्यमिति सिद्धम् । अत्रोपपत्तिः। मन्दस्पष्टभोगस्यानीयकक्षावृत्तप्रदेशाद्रहबिम्ब शीघ्रोधस्थानस्थिततद्देवतया स्वहस्तस्थितसूत्रेण स्वाभिमुखं शीघ्रान्त्यफलज्यान्तरेणाकर्ण्यते । तेन मन्दस्पष्टस्थानाच्छ्रीघ्रान्त्यफलज्यया वृत्ते भांशातिते शीघ्रनी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com