________________
ध्यायः २] संस्कृतटीका-भाषाटीकासमेतः।
विषमपदान्ते शीघ्रकर्माण शीघ्रफलसाधनार्थ पारधय उक्ताः । एते शीघ्रपारधयः कुजादीनामिति पूर्वोक्तमत्रान्वेति । भौमस्य दन्ताश्विनाः । बुधस्य दन्तेन्दवः । गुरोप्तिप्ततिः । शुक्रस्य षष्टयधिकं शतद्वयम् । शनेश्चत्वारिंशत् । अत्र कीर्तिता इत्यनेन युग्ममान्ते फलाभावादेव परिधयः कथं सम्भवन्ति । अतो विषमपदान्ते परमफलस्य सत्त्वात्तत्रैव युक्ताः परिधयः शनिमन्दशीघ्रपरिध्योः क्रमेणाधिकन्यूनत्वं च संज्ञाव्याः घातादयुक्तमित्यादिना शङ्कनीयमागमप्रामाण्यात् " श्रुतिर्यत्रप्रमाणं स्यायुक्तः का तत्र नारद” इति ब्रह्मसिद्धान्तोक्तेश्चति सूचितम् ॥ ३७॥ भा०टी०-विषमके अंत में शीध्रपारीध अंश मं.२३२, बु.१३२, बृ.७२, शु.२६०, श ४० ३७॥ अथाभीष्टकेन्द्रसम्बन्धेन परिधिभागानयनमाह
ओजयुग्मान्तरगुणा भुजज्या विज्ययोद्धृता ॥
युग्मवृत्ते धन] स्यादोजादूनाधिके स्फुटम् ॥ ३८॥ भुजज्या यत्परिधिः स्फुटीकर्तुमिष्यते तत्केन्द्रस्य मन्दशीघ्रान्तरस्य भुजज्यौजयुग्मान्तरगुणा विषमसमपदान्तीयकेन्द्रीयपरिध्योरन्तरेण गुणिता त्रिज्यया भक्ता फलं युग्मवृत्त केन्द्रयुग्मपदान्तीयपरिधौ। ओजात्केन्द्रीयविषमपदान्तीयपरिधेः सकाशादूनाधिके क्रमेण धनर्ण होने युक्तमधिके हीनं स्फुटं परिधिमानं स्यात् । अत्रोपपत्तिः । युग्मपदान्तीयस्थात् परिधेविषमपदान्तीयपरिधिर्यावता न्यूनाधिकस्तदन्तरं विषमपदत्वाद्धजज्ययोपचितमतस्त्रिज्यातुल्यभुजज्ययेदमन्तरं तदेष्टभुजज्यया किमिति फलं युग्मपरिधौ । ओजपरिधेन्यूनत्वे ऋणमधिकत्वे धनमिति । विषमपदपरिधेरधिकन्यूनयुग्मपरिधावेवर्णधनं कृतमित्युपपन्नम् ॥ ३८ ॥
भा०टी० विषम और युग्मपरिधिके भन्तरसे भुजज्याको गुणकरके त्रिज्यासे भाग करनेपर जो प्राप्त हो, लब्धफलपरिधिमें धन वा हीन करनेपर फुः परिध होगी विषमान्तसे युग्मान्त अधिक होनेपर लब्धफलहीन अन्यथा योग करे ॥ ३८॥ अथ भुजकोटिफलानयनं मंदफलानयनं चाह- . .
तद्गणे भुजकोटिज्ये भगणांशावभाजिते ।
तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम् ॥ ३९॥ भुजकोटिज्ये मन्दशीघ्रान्तरसंबन्धेन केन्द्रभुजकोटिज्ये तद्गुणे स्वीयस्फुटपरिधिना गुणिते भगणांशैः षष्टयधिकशतत्रयेण भक्ते भुजफलकोटिफले भवतः । मन्दकद्रभुजज्योत्पन्नफलस्य धनु कलादिकं मांदं फलं भवति । अत्रोपपत्तिः । कक्षास्थाचस्थानस्थितदेवतया स्वहस्तस्थितसूत्रप्रोतं ग्रहबिंबं स्वाभिमुखाकर्षणेन कक्षास्थमध्यग्रहस्थानात्परमफलज्यांतरितस्थान आकर्षणसूत्रमार्गरूपतिर्यकर्णमार्गेणाकर्ण्यते । तेन मध्य. ग्रहस्थानीयकक्षाप्रदेशांत्यफलज्याव्यासार्धेनोत्पन्नवृत्ते भगणांशांकिते भूमध्यग्रहस्पग्रे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com