________________
( ४८ )
सूर्यसिद्धान्तः
अथ ग्रहाणां मन्दपरिध्यंशान्विवक्षुः प्रथमं सूर्यचन्द्रयोराहवेर्मन्दपारिष्यंशा मनवः शीतगो रदाः ॥ युग्मान्ते विषमान्ते च नखलिप्तोनितास्तयोः ॥ ३४ ॥
[ दितीयोs
सूर्यस्य परमाकर्षणोत्पन्नपरमपूर्वपरगमनरूपपरममन्दफलांशानां ज्यापरमफलज्यातत्तुल्यव्यासार्धेनोत्पन्नवृत्ते कक्षावृत्तस्थितांशप्रमाणेन येंऽशास्ते मन्दपरिध्यंशाः केन्द्रयुग्मपदान्ते नीचोच्चसमेऽर्के चतुर्दश चन्द्रस्य तत्र ते द्वात्रिंशत् । केन्द्रविषमपदान्ते नीचोच्चाभ्यां त्रिभान्तरिते चकार। दुक्ता मन्दपरिध्यंशा विंशतिकलोनाः सन्तः सूर्यचन्द्रयोर्मन्दपरिध्यंशा भवन्ति ॥ ३४ ॥
भा० टी०-युग्मपादके अन्तमें सूर्य की मन्दपरिधि १४ अंश, चन्द्रमाकी ३२ अंश. विषम पादान्तमें २० कला कम हैं ( अर्थात् र १३ । ४० चं ३१ | ४० ) ॥ ३४ ॥ अथ भौमादीनामाह
युग्मान्तेऽर्थाद्रयः खाग्री सुराः सूर्या नवार्णवाः ||
ओजे व्यगा वसुयमा रुद्रा रुद्रा गजाब्धयः ॥ ३५ ॥ भौमस्य पञ्चसप्ततिः । बुधस्य त्रिंशत् । गुरोखयस्त्रिंशत् । शुक्रस्य द्वादश । शनेरेकोनपंचाशात् पूर्वोक्तमन्दपरिध्यंशा इति वक्ष्यमाणकुजादीनामिति चात्रान्वेति । एते युग्मपदान्ते । ओजे विषमपदान्ते भामस्य द्विसप्ततिः बुधस्याष्टाविंशतिः । युरोरेकादश । शुक्रस्यैकादश । शनेरष्टचत्वारिंशत् ॥ ३५ ॥
भा० टी० -युग्म के अन्त में मन्दपरिधि अंश में मं. ७५ बु ३०, बृ ३३. शु १२, शनि ४९, । विषमान्त में मं ७२, बु. २८, बृ. ११, शु. ११, . ४८ ॥ ३५ ॥ अथ भौमादीनां गुग्मपदान्तेशैध्यपरिध्यंशानाह
कुजादीनामतः शेष्यायुग्मान्तेऽर्थादित्रकाः ॥ गुणानिचन्द्राः खनगा द्विरसाक्षीणि गोऽग्रयः ॥ ३६ ॥ भीमादीनामतो मन्दपरिव्यंशकथनानन्तरं शैध्याः शीघ्रपरिध्यंशा युग्मपदान्ते भौमस्य पंचत्रिंशदधिकं शतद्वयम् । वुधस्य त्रयस्त्रिंशदधिकं शतम् । गुरोः सप्ततिः । शुकस्य द्विषष्ट्यधिकं शतद्वयम् । शनेरेकोनचत्वारिंशत् ॥ ३६ ॥
मा०टा० - युग्भके अन्त में शीघ्र पारीचे अंश मं. २३५, बु. १३३, बृ. ७०, शु. २६२ श. ३९ ॥ ३६ ॥
अथैतेषां विषमपदान्ते शैघ्यपरिध्यंशानाह
ओजान्ते द्वित्रियमला द्विविश्वे यमपर्वताः ॥ खर्तुदस्रा वियद्वेदाः शीघ्रकर्माण कीर्तिताः ॥ ३७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com