________________
(४६) सूयसिद्धान्तः
[ द्वितीयोऽत्रिराश्यन्तर्गतं चेत्प्रथमं विषमं पदम् । ततः षड्राश्यन्तर्गतं चेत् ब्यूनं केन्द्रं द्वितीयं समं पदम् । ततो नवराश्यन्तर्गतं चेत्षडून तृतीयं विषमं पदम् । ततो नवोनं चतुर्थ पदं सममित्यथः । तस्मात्पदाटुजस्य ज्याकोटिः कोटेा चः समुच्चये । एवकारादेकाद्वयं साध्यमित्यर्थः । अत्रोपपत्तिः । उच्चस्थानाभिमुखमुच्चदैवतैर्ग्रहाणामाकर्षणोक्तेरुच्चाद्ग्रहः कियदन्तरेणति ज्ञानार्थमुच्चहीनो ग्रहः केन्द्रमुच्चग्रहणवशात्तदाख्यम् । तत्र भगवता स्वेच्छया ग्रहादुचं यदन्तरेण तत्केन्द्रं कृतम् । उभयथा भुजकोटयोस्तुल्यत्वात् । द्वादशराश्यङ्किते वृत्त उच्चास्थानाचतुर्विभागात्मक एकैको भागो राशिवयात्मकः पदसंज्ञः । अथोच्चस्थानाद्रहः कस्मिन्पदेऽस्तीति शून्यत्रिषण्णवोंने केन्द्रं कृतं ज्यानां पदान्तर्गतत्वात् । ग्रहाधिष्ठितपदाछजज्याकोटिज्ययोमा॑नम् ॥ २९ ॥
मा० टी०-भन्दोच्चसे ग्रहमध्य वियोग करनेपर अथवा शीघ्रसे ग्रहमध्य हीन करनेपर केन्द्र होता है । भगणके जिस पादमें केन्द्र है, तिससे भुजज्या और कोटिज्या स्थिर होती है ॥ २९॥
ननु पदे ग्रहस्य राशिविभागात्मकेनैकत्वाटुजकोटिज्ययोरतुल्ययोः साधनं कथमित्यत आह
गता जज्याविषमे गम्यात्कोटिः पदे भवेत् ॥
युग्मे तु गम्यादाहुल्यात्कोटिज्या तु गताद्भवेत् ॥ ३०॥ विषमे पदे गताग्रहस्य पदादितो यद्गतं राशिविभागात्मकं प्राग्ज्ञातं तस्मादि. त्यर्थः । भुजज्या स्यात् । गम्यागतोनं त्रिभं ग्रहात्पदान्तावधिकमेष्यम् । तस्मात्कोटिः कोटिज्या स्यात् । युग्मे समे तुकारात्पद एष्याटुजज्यागतात्कोटिज्या स्यात् । तुकारो विशेषद्योतकः । एकस्मादेवोक्तरीत्या द्वयं साधितमित्यर्थः । अत्रोपपत्तिः । विषमपदेग्रहोचोर्ध्वाधररेखान्तरानुसारेण फलमुत्पद्यते ततो वृत्तान्तस्तदन्तरमर्धज्या भुजरूपा तदर्धचापं तदंतरांशा वृत्तभागस्था गताः । ऊर्ध्वाधररेखामत्स्यसम्पन्नतिर्य ग्रेखाग्रहयोरन्तरसूत्रमधज्यापदान्तः कोटिज्याभुजोत्क्रमज्योनव्यासारिखारूपकोटितुल्यत्वात् । तदर्धचापं भुजांशोनं त्रिभमिति गम्यात्कोटिज्या । समपदे ग्रहो;धररेखान्तरं तिर्यगर्धज्याभुजज्येति तदर्धं चापं यदैव्यं तिर्यग्रेखाग्रहान्तरं तिर्यगर्धज्याकोटितुल्यत्वात्कोटिस्तचापं पदगतमित्युपपन्नं गतादित्यादि ॥ ३० ॥ __ भा०टी०-विषम पदमें गतसे भुजज्या और गम्यसे कोटिज्या होती है । युग्मपदमें गम्यसे भुजज्या और गतसे कोटिज्या होती है ॥ ३० ॥
अथाभीष्टकालानां ज्यासाधनं श्लोकाभ्यामाहलिप्तास्तत्त्वयमैर्भक्ता लब्धं ज्यापिण्डकं गतम् ॥ गतगम्यान्तराभ्यस्तं विभजेत्तत्त्वलोचनः ॥३३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com