________________
ध्यायः २ ]
संस्कृतटीका - भाषाटीकासमतः ।
( ४३ )
""
कादौ सर्षपाद्यवस्थान न स्यादिति मत्वा तद्भागस्य ज्या तत्तुल्यैवेति । " वृत्तस्य षण्णवत्यंशो दण्डवद्दृश्यते तु सः ॥ इात शाकल्योक्तः । प्रथमज्याचक्रकलाद्वादशांशरूपैकराजिकलानामष्टभागस्तत्त्वाश्वमितः । एतन्मितमेव प्रथमचापत एव दन्तरेणाभीष्टाज्याश्चतुर्विंशत् । अथ चतुर्विंशतिजीवानां यथोत्तरमुपचयात्तदन्तररूपखंडानां यथोत्तरमपचयस्य वृत्तेज्यांकनेन प्रत्यक्षत्वाज्ज्यान्तररूपखंडानामन्तरं यथोत्तरमुपचितमिति द्वाविंशतित्रयोविंशतिचतुर्विंशतिज्यानामन्तरयोरन्तरमिदं परमं खंडान्तरं सूक्ष्मज्योत्पत्तिप्रकारेणावगतम् १५ । १६ । ४८ । अथ त्रिज्ययेदं खंडकान्तरं तदा प्रथमज्यया किमित्यनुपातेन फलप्रमाणयोः फलेनापवर्त्य प्रमाणस्थाने तत्त्वाश्विनोऽनेन भक्ताः प्रथमज्याफलं पूर्वद्वितीयखंडयोरन्तरम् । अनेन पूर्वखंड हीनं द्वितीयं खंडं भवति । तत्र पूर्वखंडं प्रथमज्यातुल्यमेव । द्वितीयखंड प्रथमज्यायां युतं द्वितीयज्या । एवमस्यास्तत्त्वाश्विभागलब्धं द्वितायतृतयिखण्डकयारेन्तरमनेन द्वितीयखण्डनं तृतीयखण्डमित्यनेन द्वितायज्यायुता तृतीयज्या । एवं चतुर्थाद्याः । तत्र पूर्वमर्धाभ्यधिकग्रहणेनोत्तरत्राधिकान्तरपातसम्भावनया क्वचित् क्वचिदर्धाः भ्यधिकावयवस्यैकाधिकत्वेनाग्रह इत्युपपन्न श्लोकद्वयम् ॥ १५ ॥ १६ ॥
O
भा०टा० - राशिकलाका ( १८८० ) अष्टमभाग प्रथम ज्यार्द्ध है । तिनको तिसकर क भाग करके, भाग फलहीन करके पूर्वके साथ मिलानेसे दूसरा ज्यार्ध है ॥ १५ ॥ विगतपिण्डोंको क्रमशः आदि २१५ से भागलब्ध एकत्र कर २२५ से अलग कर तिसको पूर्व खण्डमें मिलानेसे खण्ड होंगे; इस प्रकार निम्नलिखित २४ ज्याई पिण्ड नियत होंगे ॥ १६ अथैताः सिद्धाः श्लोकषट्केन कथयन्नुत्क्रमज्यार्धपिण्डज्ञानमाहतत्त्वाश्विनोऽधिकृता रूपभूमिधरर्तवः ॥ खांकाष्टौ पंचशून्येशा बाणरूपगुणेन्दवः || १७ ॥ शून्यलोचनपञ्चकाछिद्ररूपमुनीन्दवः ॥ वियच्चन्द्रातिधृतयो गुणरंधाम्बराश्विनः ॥ १८ ॥ मुनिषड्यमनेत्राणि चन्द्रानिकृतदस्रकाः || पञ्चाष्टविषयाक्षण कुञ्जराश्विनगाश्विनः ॥ १९ ॥
रन्ध्रपञ्चाष्टकयमा वस्वद्यंकयमास्तथा ॥
कृताष्टशून्य ज्वलना नगादिश शिवह्नयः ॥ २० ॥ षट्पञ्च लोचनगुणाश्चन्द्रनेत्रानिवह्नयः ॥ यमाद्रिवह्निज्वलना रन्ध्रशून्यार्णवाग्नयः ॥ २१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com