________________
(४२) सूयासद्धान्तः
[द्वितीयोऽआधेनवं क्रमात्पिण्डान्भक्त्वा लब्धोनसंयुताः ॥
खण्डकाः स्युश्चतुर्विशज्यापिण्डाः क्रमादमी ॥ १६॥ एकराशिकलानामष्टादशशतानामष्टमोऽशस्तत्त्वाश्विमितः प्रथममायं ज्याधे संपूर्ण जीवार्द्धपिण्डकः कथ्यते तदभिज्ञैः । ततः प्रथमज्यार्धात्तेन प्रथमज्याधैन भक्ताल्लब्धेन हीनमन्यस्याप्रसंगात्प्रथमज्यामनेन युक्तं तत्प्रथमज्याध द्वितीयकं ज्याधं भवति । द्विगुणप्रथममेकोनम् । तृतीयादीनामानयनार्थमुक्तप्रकारमातदिशति-आयेनोत । प्रथमज्याधीपण्डेन । एवमुक्तरीत्या क्रमात्सिद्धपिण्डान्भक्त्वा लब्धैरूनमाद्यं खण्डमनेन युताः खण्डका असिद्धा व्यवहितसिद्रज्यापिण्डा असिद्धपिण्डा भवन्ति । यथा प्रथमखण्डं २२५ प्रथमभक्तं फलं १ द्वितीयखण्डं ४४९ प्रथमभक्तं फलं द्वयम् २ अर्धाधिकावयवस्यैकाधिकत्वे. न ग्रहस्य साम्प्रदायिकत्वात् । फलैक्योनं प्रथमम् २२२ अनेन द्वितीयखण्डो ४४९ युतस्तृतीयम् ६७१ एवमिदं प्रथमखण्डभक्तं फलम् ३ अनेन' पूर्वफलैक्यं ३ युतं जातं ६ सर्वफलैक्यमनेन प्रथमं खण्डं हीनम् २१९ अनेन तृतीयं ६७१ युतं चतुर्थम् ८९० एवमिदं प्रथमखण्डभक्तं फलं ४ पूर्वलब्धैक्योनप्रथमखण्डरूपं २१९ ज्यान्तररूपखण्डकमनेन ४ हीनम् २१५ अनेन चतुर्थ युतं पञ्चमम् ११०५ एवमग्रेपि । यथोक्तरीत्या संख्यखण्डानां सम्भवात्खण्डनियममाह-स्युरिति । एवं चतुर्विंशत्संख्याका ज्यापिण्ड : कार्या न तदधिकाः । अत्र । “एकविंशाच विशाच षष्ठात्पञ्चदशादपि ॥ सप्तमाद्वादशात्सप्तदशान्ना?त्तरं मतम् ॥" इति ब्रह्मसिद्धान्तोक्तस्थलेऽर्धाधिकावयवस्यैकाधिकत्वेन न ग्रह इति ध्येयम् । गणितस्याविकृतत्वात्सिद्धाः पिण्डाः कथं नोक्ता इत्यत आह । क्रमादिति । अमी सिद्धाः पिण्डाः क्रमात्समनन्तरमेवोच्यन्ते । अत्रोपपत्तिः। समायां भूमौ वृत्तं भगणकलांकित तिर्यगूर्ध्वाधरव्यासमितरेखाभ्यां चतुर्भागं कार्य तत्रोवरेखासक्तपीरधिप्रदेशादुभयत्र समविभागं विगणय्य तदग्रयोर्बद्धं सूत्रं वृत्ते द्विगुणविभागामेतसम्पूर्णचापस्य सम्पूर्णज्या । अत्र गणितऊर्ध्वरेखातोऽर्धज्याया एव प्रयोजनात्तदर्धचापस्य तदर्धमर्धज्या । एवं वृत्तचतुर्थांश ऊर्ध्वरेखातोऽभीष्टाशानां चापार्धाकाराणामर्धज्या अभीष्टा गण्याः । तत्रभगवता. स्वेच्छया वृत्तचतुर्थांशे त्रिराशिमिते चतुर्विंशज्याः कल्पितास्तज्ज्ञानं तु वृत्ते चक्रकलानामंकितत्वात्तत्परिधिव्यासार्धं त्रिराशिज्यान्तिमा । भनन्दाग्निमितपरिधौ खबाणसूर्यमितो व्यासस्तदा चक्रकलापरिधौ क इत्यनुपातेन व्यासानयनम् । यथा चक्रकलाः २१६०० खबाणसूर्यगुणाः २७०००००० भनन्दाग्नि ३९२७ भक्ता व्यासः ६८७६ एतदर्धमन्तिमाज्या ३४३८ अथ वृते चापज्ययोविवेक तयोरतुल्यत्वमपि भगवता कोऽपि वृत्तभागः समोऽस्त्यन्यथामल
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com