________________
(४०) सूयासद्धान्तः
[ द्वितीयोऽअथातएव भौमादीनामल्पमूर्तित्वादाभ्यां फलाधिकत्वं सम्भवतीत्याह
भोमादयोऽल्पमूर्तित्वाच्छीघ्रमन्दोचसञ्जकः॥
देवतरपकृष्यंते सुदूरमतिवेगिताः ॥ १०॥ भौमादयः पञ्चग्रहा अल्पमूर्तित्वालघुतरविंबत्वाच्छीघ्रमंदोच्चसङ्घकैः शीघ्रोच्चमंदोच्चसंज्ञेतैः सुदूरमत्यंतं बह्वपकृष्यंते । अतएवातिवोगता अत्यंतवेगः संजातो येषां ते बिवलघुत्वेनोचव्याकर्षणेन च बहुपरमफला इत्यर्थः । ननु सूर्यचंद्रयोः कक्षाकारविलक्षणप्रवहवायुचलनेन फलोत्पादनं युक्तं भौमादीनां तु प्रत्येकमुच्चद्वयसद्भावाद्वायुरश्म्याकर्षणासम्भवेन कक्षाकारप्रवहविलक्षणवायुचलनेन फलोत्पादनार्थमंगीकृतं कथं सम्भवति । उच्चद्वयस्थानस्यैकत्वाभावान्नह्येकमेव वायुमण्डलं युगपद्विरुद्धगत्योराश्रमं स्वतो भवितुमहतीति चेन्न भौमादीनां शीघ्रमंदोच्चदेवताइयेन तत्सूत्रमार्गेण ग्रहबिम्बाकर्षणस्यैव मशक्त्यारचनात् । न वायुमण्डलचलनकल्पनं सूर्यचंद्रयोरप्येवमेवांगीकारे बाधकामा पाच । वायुमण्डलकल्पनं तु तदातरश्मीत्युक्त्वानुपपत्त्या नातिप्रयोजनम्। तद्वातरश्मिाभि द्धा इत्यस्य पश्चिमभ्रमात्मकप्रवहायौ स्वस्वाकाशगोले. समसूत्रसम्बन्धेन स्थिता इति ग्रहस्थितिस्वरूपोक्त्यासमर्थनात् । नहिः तदत्र हेतुगर्भ येनानुपपत्तिः शंकनीया । उच्चदेवताकल्पनेनाकाशस्थग्रहाणां तथातथा स्वशक्त्या तदाकर्षणात्फलव्यसंस्काररूपैकफलोत्पादनं संगच्छते । अतएव सूत्रं ग्रहबिंबप्रोतकक्षाकारामति कल्पनमपि निरस्तम् । उच्चद्वयात्तल्यकर्षणेन विरुद्धकर्षणेन चः सूत्रमण्डलभंगापत्तीरति ॥१०॥
मा० टी०-मंगल आदि छोटी मूर्तिवाले होनेके कारणसे शीघ्रमन्दोच्च देवताओंकरके दूर खिंचे जाते और अति शीघ्र चलते हैं ।। १० ।! अथैतदुपसंहरति
अतो धनणं सुमहत्तेषां गतिवशाद्भवेत् ॥
आकृष्यमाणास्तवं व्योनि यान्त्यनिलाहताः ॥११॥ अतः पूर्वोक्तसुदूराकर्षणप्रतिपादनात्तेषां भौमादीनां गतिवशादाकर्षणोत्पन्नचलनवशात्सुमहदत्यधिकं फलं धनणं स्वोच्चापकृष्टेत्यादिना भवति । नन्वाकर्षणोत्पन्नचलनं कथं न प्रत्यक्षमित्यत आह-आकृष्यमाणा इति, । तैरुचपातदैवतैरवेमुक्तप्रकारेणाकृष्यमाणा आकर्षिता एते भौमादयो व्योम्नि स्वस्वाकाशगोलेऽनिलाहताः पश्चिमाभिमुखानवरतप्रवहवाय्वाधाता यान्ति गच्छन्ति । तथाचावलम्बनोत्पन्नपूर्वगतिर्यथानप्रत्यक्षा तथा पूर्वगतिविकृत्यात्मकमेतदाकर्षणचलनमानयतं प्रवहवायुभ्रमणप्राबल्यादप्रत्यक्षमिति भावः ॥ ११ ॥
मा० टी०-इस चालके वासे उनका धन और ऋण अत्यन्त माधक होताहै । इस प्रकार आकाशमार्गमें खिंचते हुए होकर पवनके सहारेसे चलते हैं ॥ ११ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com