________________
ध्यायः २. ]
संस्कृतटीका - भाषाटीकासमेतः ।
(३९)
सूत्रबद्धत्वाद्वबुधशुक्रयास्तथा विक्षेपणं न्यायसिद्धमेवेति भावः । ननु भौमगुरुशनीनामेवं कथं नोक्तमनयोर्वा कथमेतदुक्तं सर्वेषामेकरीतिकथनस्य समुचितत्वात् । किञ्च गुरुभौमशनीनामुचदवेताः स्वस्वकक्षास्था इति फलमुपपन्नं भवति बुधशुक्रयोरुञ्चदेववतयोः कक्षतो दक्षिणोत्तरयोः स्थितत्वेन पूर्वोक्तरीत्या फलानुपपत्तिर्विलक्षणप्रवहवायुसूत्रस्थदेवतासम्बद्धस्य स्पष्टभूपरिध्याकारत्वेन कक्षाकारत्वाभावात् । विना कक्षाकारतां फलोत्पादनस्य ब्रह्मणोऽप्यशक्यत्वाच्च । न च विलक्षणप्रवहवायुसूत्रं देवता सम्बद्धं ग्रहाकाशगोले कक्षाकारत्वाभावेऽपि कक्षातुल्यं स्थानांतर इति फलोत्पत्तिर्याम्योत्तरान्तरसपि कल्पनयेति वाच्यम् । उच्च देवतास्थानस्य कक्षातो दक्षिणत्वे तत्षड्भान्तरप्रदेशस्योत्तरत्वावश्य सम्भावेनोच्च बुध शुक्रयोरे के दिग्विक्षेपतुल्यत्वनियमानुपपत्तेः । तत्कथमिदं सङ्गत भगवदुक्तमिति चेत् । अत्रोच्यते । स्वरुच्या सङ्गतार्थमङ्गीकृत्य तदूषणोद्घाटन भगवदुपालम्भनकर्तृ रसनाच्छेदस्तत्तत्वार्थप्रकाशेनावश्यं करणीयः । तथाहि स्वशीघ्रोच्चाबुधशुक्र योर्यदन्तरं राश्यात्मकं तद्वत्पातस्थेनान्तरेण युक्तः पूर्वातीतपात इत्यर्थः । यथा बुधशुक्रयोरपरपूर्वार्धक्रमेण स्थितोऽवस्थितः तुकरात्तथेत्यर्थः । तच्छ्रीग्राकर्षणात्तादृशपाताभ्यां शीघ्रवेगेनाकर्षणं तस्मात्पातस्थानाधिष्ठातृदेवताभ्यां स्वहस्तस्थितग्रहसंबद्धवायुसूत्रस्यातिवेगाकर्षणरचनादित्यर्थः । तौ बुधशुक्रायुक्तवदुत्तरदक्षिणक्रमेण विक्षिप्येते । अत्र पातशब्देन चक्रशोधितपातो बोध्यः । अन्यथा ग्रहो न शीघ्रोच्चरूपकेन्द्रयोजनस्योपपत्तिसिद्धत्वेन शीघ्रोच्चोनग्रहरू केन्द्रयो जनोक्त्यनुपपत्तेः । तथा च सर्वग्रहसाधारणं विक्षेपकथनं पातभेददर्श ये बुधशुक्रयोः पृथगुक्तम् । नह्यन्यस्मिन्पक्ष उच्चयेोर्विक्षेपणं प्रतीयते येन प्रागुक्त सर्वविलोपाशंकनं शंकनीयम् । पातभेदोक्तिकारणं च " ये चात्रपात भगणाः कथिता - ज्ञभृग्वोस्ते शीघ्रकेन्द्रभगणैरधिका यतः स्युः । स्वल्पाः सुखार्थमुदिताश्वलकेन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ ॥ " इति भास्कराचार्योक्तमिति दिक् ॥ ८ ॥ मा०टी० - बुध और शुक्रका पात, शीघ्र से पहली कही हुई रीतिकरके स्थित होनेपर शीघ्र:कर्षण हेतु से पहले की समान विक्षिप्त होता है ॥ ८ ॥ स्यादेतत्परमुच्चेदेवतयोरविशेषात्सूर्यचन्द्रयोः समं फलं कुतो न भवतीत्यत आहमहत्त्वान्मण्डलस्यार्कः स्वल्पमेवापकृष्यते ॥
1
मण्डलाल्पतया चन्द्रस्ततो बहुपकृष्यते ॥ ९ ॥
सूर्यो मण्डलस्य बिंबस्य महत्वाद्गुरुत्ववत्त्वात्स्वल्पमितरग्रहापेक्षयाल्पं परमफलम् एवकारो निर्धारणेऽपकृष्यते उच्चजीवनापकृष्यते । चंद्रो मण्डलाल्पतया बिम्बस्य लघुत्वेन ततः सूर्यफलाद्बह्रधिकं परमफलमुच्चजीवेना कृष्यते ॥ ९ ॥
भा० टी० - सूर्यमंडल अधिक भारी होनेसे कम खिंचता है, चंद्रमा स्वल्प होनेसे अधिक। खींचा जाता है ॥ ९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com