________________
( ३८ )
[ द्वितीयोs
चन्द्रादीनां विरविग्रहाणामपक्रमात् क्रान्तिवृत्तस्थस्पष्टग्रहभोगस्थानाद्दक्षिणोत्तरतो दक्षिणस्यामुत्तरस्यां वा दिशि । अपिशब्दः पूर्वापराभ्यां समुच्चयार्थकः । एष गणितागतः पातः पातराश्यादिभोगस्थानम् । अत्राप्यपिशब्द उच्चेन समुच्चयार्थकोऽन्वेति । एवमुच्चेन पूर्वापरयोः फलान्तरं भवति तथेत्यर्थः । विक्षेपं विक्षेपणं स्वरंहसात्मवेगेन विक्षिपति करोति । विशिष्टवाचकानां पदानां विशेषणवाचकपदसमवधाने विशेष्यमा त्रार्थत्वात् । चन्द्रादीन्विक्षिपतीति तात्पर्यार्थः । ननूच्चेन स्वाधिष्ठितजीवद्वारा ग्रहाकर्षणं क्रियते तथा पातेनाचेतनत्वाद्वेगाभावेन ग्रहविक्षेपणं कर्त्तुमशक्यमित्यत आह- राहुरिति । पातस्थानाधिष्ठात्री देवता राहुजीवविशेषश्चन्द्रपातस्तु दैत्यविशेषो राहुः । रहति त्यजति ग्रहमिति राहुरिति व्युत्पत्तेः ॥ ६ ॥
मा० टी० - अपने बलसे पातहुआ राहु, ग्रहों को दक्षिण व उत्तर दिशा में विक्षिप्त करता है । क्रान्तिवृत्तसे चन्द्रादिके विक्षेपको विक्षेप कहते हैं ॥ ६ ॥
अथैतद्विशदयति
उत्तराभिमुखं पातो विक्षिपत्यपरार्द्धगः ||
ग्रहं प्राग्भगणार्द्धस्थो याम्यायामपकर्षति ॥ ७ ॥
अपरार्द्धगो ग्रहस्थानात्पश्चिमविभागस्थित भगणार्धात्मक राशिषट्कस्थितो राहुग्रहबिम्बं स्वराश्यादिभोगस्थानीयप्रदेशादुत्तरदिगभिमुखं विक्षिपति विक्षेपान्तरेण त्यजति । प्राग्भगणार्धस्थः ग्रहस्थानात्पूर्वविभागस्थितराशिषट्रकमध्यस्थितो दक्षिणस्यां दिश्यपकर्षात विक्षिपति ॥ ७ ॥
मा० टी०-पश्चिमके आधे भगण में गये हुए पात ग्रहोंको उत्तराभिमुख में और पूर्वके आने भगण में स्थित ग्रहोंको दक्षिण दिशामें खेचता है ॥ ७ ॥ अथ बुधशुक्रयाविशेषमाह
बुधभार्गवयोः शीघ्रात्तद्वत्पातो यदा स्थितः ॥ तच्छीघ्राकर्षणात्तौ तु विक्षिप्येते ययोक्तवत् ॥ ८ ॥
बुधशुक्रयोः शीघ्रोच्चाज्जात्यभिप्रायेणैकवचनम् । बुधशुकयोः पातो जात्यभिप्राकवचनम् । तद्वत्परार्धपूर्वार्धभगणार्धमध्ये यदा यत्काले स्थितस्तुकारात् यत्काले पाताभ्यामित्यर्थः । ............................................... ( ? ) @ तो बुधशुकौ यथोक्तवत्पूर्वार्धपरार्धक्रमेण दक्षिणोत्तरयोर्विक्षिप्येते विक्षेपान्तरेण त्यज्येते । तनृच्चात्तादृगवस्थितपातौ सम्बन्धाभावाद्बुधशुक्रौ दक्षिणोत्तरयोः कथं त्यजतोऽ न्यथा वैयाधिकरण्येनातिप्रसङ्गापत्तेरित्यतः कारणमाह तच्छीघ्राकर्षणादिति । बुधशुऋयोः शीघ्रोच्चे तयोराकर्षणाभ्यां जात्यभिप्रायेणैकवचनम् । तथा च तदुच्चाभ्यां तादृगवस्थितपातौ तदुच्चजीवौ दक्षिणोत्तरयोस्त्यजत इति पूर्वोक्तरीत्या न्यायार्सद्धमतस्तदुच्च
.....
सूर्यसिद्धान्तः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com