SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ध्यायः २] संस्कृतटीका-भाषाटीकासमेतः। (३७) ग्रहाणामाकर्षणं सम्भवति तद्रज्जूनां विरलतया घनीभूतत्वाभावनाकर्षणायोग्यत्वादित्यत आह । प्रवहाख्य इति । उच्चदेवताहस्तद्वयस्थितकक्षाकारसूत्रं वायुः प्रवहवायुसम्बन्धात्प्रवहसंज्ञो न पश्चिमाभिमुखभ्रमप्रवहात्मकस्तान्ग्रहान्स्वोच्चाभिमुखं स्वीचदेवतास्थानसम्भुखमीरयेत् प्रेरयति चालयात । तुकारादुच्चस्थानात् पूर्वस्मिन्ग्रहे वायुः पश्चिमगत्या ग्रहं चालयति पश्चिमस्थे वायुः पूर्वगत्या ग्रहं चालयतीत्यर्थः । तथा च कक्षा कारसूत्रं तदा तदा तथा तथा भ्रमतीति दैवतैराकृष्यत इत्युपचारादुच्यत इति भावः अतएव ग्रहाणां स्पष्टाक्रयोत्पन्नेत्याह-पूर्वापरापकृष्टा इति । उच्चदैवतैः पूर्वापरदिशयोरपकृष्टा ग्रहाः पृथाविधांमध्यमतिरिक्तप्रकारां गति गमनक्रियां यान्ति । अतो न केवलं मध्यक्रियया निर्वाहः ॥ ३ ॥ ___भा० टी०-प्रवह नामक वायु ग्रहको अपनी उंची २ दिशाभोंमें लेजाता है । इस प्रकार पूर्व पश्चिम दिशामें खींचकर पृ.क् गतिको प्राप्त करता है ॥ ३ ॥ अथ प्राक्पश्चादपकृष्यन्त इ युच्चं विशदयति ग्रहात्प्राग्भगणाद्धस्थः प्राङ्मुखं कर्षति ग्रहम् ॥ उच्चसंज्ञोऽपरार्द्धस्थस्तद्वत्पश्चान्मुखं ग्रहम् ॥ ४॥ ग्रहस्थानात्पूर्वभागस्थराशिफ्ट्रकस्थित उच्चसंज्ञो जीवो ग्रहबिम्बं पूर्वदिगभिमुखं स्वाभिमुखं कर्षत्याकर्षति । अपगईस्थो ग्रहस्थानात्पश्चिमभागस्थराशिषट्रकास्थित उच्चसंज्ञो जीव इत्यर्थः। ग्रहबिम्ब पश्चान्मुखं पश्चिमदिगभिमुखं स्वाभिमुखं तदाकर्षतीत्यर्थः ४॥ __ भा० टी०-पूर्व आधे भगणम स्थित उच्चग्रहको पूर्व में और दूसरे अर्द्धमें स्थितग्रहको पाश्चममें खेचता है ॥ ४॥ अथ पूर्वोक्तसिद्धं फलितमाह स्वोचापकृष्टा भगणेःप्रामुखं यान्ति यद्रहाः ॥ तत्तेषु धनमित्युक्तमृणं पश्चान्मुखेषु तु ॥५॥ स्वोच्चजीवाकर्षिता ग्रहाः पूर्वाभिमुखं भगणैराशिभिर्भगोलस्थक्रान्तिवृत्तानुसृतस्वाकाशगोलान्तर्गतक्रान्तिवृत्ते द्वादशराश्यन्तिके यद्राशिविभागैरित्यर्थः । यद्यत्संख्यामितं गच्छन्ति तत्तत्संख्यामितं मागादिकं फलरूपं तेषु पूर्वावगतग्रहराश्यादिभोगेषु धनं योज्यम् । पश्चान्मुखेषु, पश्चिमाकर्षितग्रहपूर्वावगतराश्यादिभोगेषु कारायत्संख्यामित लरूपं पश्चिमतो गच्छन्ति तदित्यर्थः । ऋणं हीनमिति । एतत्पूर्वैः कथितम् ॥ ५॥ भा० टी०-अपने उच्चसे खेंचकर जब ग्रह पूर्वदिशामें जाते हैं, तब तिसमें धन विपरीत पश्चिम दिशामें जाय तो ऋण होता है ॥ ५॥ अथ पातानां ग्रहविक्षेपरूपगतिहेतुत्वं प्रतिपादयति दक्षिणोत्तरतोऽप्येवं पातो राहुः स्वरहंसा ॥ विक्षिपत्येष विक्षे चन्द्रादीनामपक्रमात् ॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy