________________
(३६) सूर्यसिद्धान्तः
[द्वितीयोऽअथानयोरुचपातयोर्मध्याच्चयोर्गतिहेतुत्वं प्रतिपादयति
तदातरश्मिभिर्बद्धास्तः सव्येतरपाणिभिः॥
प्राक्पश्चादपकृष्यन्ते यथासन्नं स्वादिङ्मुखम् ॥२॥ तेषामुच्चसंज्ञकजीवानां वायुरूपा ये रश्मयो रजवस्ताभिर्बद्धाविम्बात्मकग्रहास्तैरुच्चसंज्ञकजीवैः सव्यवामहस्तैरुच्चबहुत्वेन हस्तबाहुल्यादहुवचनं हस्ताभ्यामित्यर्थः । स्वदिङ्मुखं स्वाभिमुखं यथासन्नं ग्रहबिम्बं भवति तथा प्राक्पश्चात् पूर्वपश्चिममागाभ्यामित्यर्थः । अपकृष्यन्ते आकर्ण्यन्ते । अयमभिप्रायः । भचक्रगोलस्थक्रान्तिवृत्तानुसृतग्रहाकाशगोलान्तर्गतकान्तिवृत्ते कक्षारूपे स्वस्थप्रदेशे ग्रहोच्चपातास्तिष्ठन्ति । तत्र बिम्बव्यासोनकक्षाकारसूत्रं प्रवहवाय्वतिरिक्तवायुरूपं स्वतो गतिस्वस्थ ने कम्पमानं ग्रहबिम्बव्यासे पूर्वापरे प्रोतमुच्चजीवहस्तव्यान्तर्गतमास्ति । अथ ग्रहबिम्बमु. जस्थानात्पूर्वस्मिन्स्वशक्त्या गच्छदाप वामहस्तास्थितसूत्रणाचस्थानात्पूर्वरूपेण ग्रहस्थानात्पाश्चिमरूपंण बृहत्सूत्रावयवात्मकेन स्वस्थानात्पश्चात् स्वाभिमुखमपकृष्यते निरन्तरमुच्चदैवतैः स्वशक्त्या यावत् षड्भान्तरं तयोः । अनन्तरं तन्मार्गेणाकर्षणसम्भवात्पूर्वस्मिन् गच्छद्रहबिम्ब सव्यहस्तस्थितसूत्रेणोच्चस्थानात् पश्चिमरूपेण ग्रहस्थानात्पूर्वरूपण बृहत्सूत्रावयवात्मकेन स्वस्थानात्पूर्वस्मिन् स्वाभिमुखमाकृष्यते स्वशक्त्या निरन्तरं यावदन्तराभावस्तयोरेति ॥२॥ __ भा. टी.-बह वायु ( अदृश्य ) किरणों करके बाएं और दाहिने हाथमें बैंचकर सन्मुख पूर्व या पंछे अपने स्थानसे ग्रहोंको ले जाते हैं ॥ २॥
अथातएवकरूपां पूर्वाधिकारावगतां गतिं त्यक्त्वा प्रत्यहं विलक्षणां गति प्राप्ता ग्रहा इत्यत आह
प्रवहाख्यो मरुत्तांगस्तु स्वोच्चाभिमुखमीरयेत् ।
पूर्वापरापकृष्टास्ते गति यांति पृथविधाम् ॥३॥ प्रबहाख्यः प्रवहसंज्ञको मरुद्वायुः पाश्चमाभिमुखभ्रमस्तान्ग्रहान् तुकारादुच्चानि स्वोचामिमुखं स्वस्य प्रवहभ्रमेणेनोचं भावप्रधाननिर्देशादुचता यस्यां दिशि तत्स्वोच्च पूर्वदिक्पूर्वभाग एव ग्रहाणां प्रवहभ्रमेणेचगमनदर्शनात् । तत्सम्मुखं पूर्वादेशोति तात्पर्यार्थः । ईरयेत् पश्चिमाभिमुखभ्रमणसिद्धप्रागुक्तग्रहावलम्बनरूपेण चालयतीत्यर्थः । अतः कारणात्ते ग्रहाः पूर्वापरापकृष्टा उच्चदैवतैः पूर्वपश्चिमदिशोराकृष्टाः पृथग्विधां प्रथमावगतैकरूपभिन्नप्रकारावगतां प्रतिक्षणविलक्षणां गात गमनक्रियां यान्ति प्रामु वन्ति । अवलम्बनाकर्षणाभ्यां प्रतिदिनं ग्रहाणां गतेरन्यादृशत्वं तदनुसारेण ग्रहचरज्ञान युक्तामति ग्रहाणां स्पष्टाक्रयोत्पन्नति भावः । यद्वा । ननु वायुरज्जुभिः कथं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com