________________
ध्यायः २.] संस्कृतटीका-भाषाटीकासमेतः। (३५)
एवं पूर्वश्लोकांभ्यां त्रिधनः सप्तविंशतिरंध्राणि नव द्वादश षट् द्वादश द्वादशैते दशगुणिताः क्रमादुक्ताङ्कक्रमाचंद्रादीनां वारक्रमाचंद्रभौमबुधगुरुशुक्रशनीनां विक्षेपकला मध्या अग्रे परमशरकलानामनियतत्वेनोक्तेः कथिताः । तथा च मध्यत्वेनैषामत्र प्रसंगसंगत्या कथनमिति भावः ॥ ७० ॥
भा० टी०-ऐसेही २७, ९, १२, ६, १२, १२ के १० से गुण करके क्रमानुसार चन्द्रादिमें विक्षेपकला होगी ॥ ७० ॥ अथ पूर्वापरग्रंथयोरसंगतिनिवारणायाधिकारसमाप्तिं फक्कियाह
इति सूर्यसिद्धान्ते मध्यमाधिकारः ॥१॥ मयं प्रति- सूर्यांशपुरुषेण सूर्योक्तस्यैव कथनादेतदुक्तस्यापि सूर्यसिद्धान्तत्वम् । तत्र मध्यममानेन गणितमधिक्रियते यस्मिन्नेतादृशो ग्रंथैकदेशः परिपूर्तिमाप्त इत्यर्थः । रंगनाथेन रचिते सूर्यासद्धान्तटिप्पणे॥ मध्याधिकारः पूर्णोऽयं तद्गूढार्थप्रकाशके। इति श्रीसकलगणकसार्वभौमबल्लालदेवज्ञात्मजरंगनाथगणकविरचिते गूढार्थप्रकाशके मध्यमाधिकारः पूर्णः ॥१॥
इति प्रथमाध्यायः समाप्तः ॥१॥
द्वितीयोऽध्यायः। अथ स्पष्टाधिकारो व्याख्यायते । तत्र ग्रहाणां मध्यमातिरिक्तस्पष्टक्रियायां कारणमाह
अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः॥
शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः ॥१॥ शीघ्रोचमन्दोचपातसंज्ञकाः पूर्वोक्तपदार्थजीवाविशेषाः सूर्यादिग्रहाणां गतिकारणभूताः सन्ति । ननु कालेनैव ग्रहचलनं भवतीति कालो गतिहेतु त इत्यत आहकालस्योत । पूर्वप्रतिपादितकालस्य स्वरूपाणि तथा चैषां कालमूर्तित्वेन ग्रहगतिहेतुत्वे न सम्भवतीति भावः । ननु कालस्य घट्यादिमूर्त्तित्वादेषां तदात्मकत्वाभावात्कथं कालमातत्वमित्यत आह-भगणाश्रिता इति । भगोलस्थक्रान्तिवृत्तानुसृतग्रहगोलस्थ. क्रान्तिवृत्तप्रदेशाश्रिता राश्यात्मका इत्यर्थः । तथा च ग्रहराश्यादिभोगानां कालवशेनैवोत्पन्नत्वात् तदात्मकानां कालमूर्तित्वामति भावः । ननु दृश्यन्ते कुतो नेत्यत आहअदृश्यरूपा इति । वायवीयशरीरा अव्यक्तरूपत्वादप्रत्यक्षा इति भावः एवं च ग्रहा. णामुच्चादिसद्भावात्स्पष्टक्रियोत्पन्नेति तात्पर्यम् ॥ १॥
भा० टी०-शीघ्रमन्दोच्चपात इत्यादि अदृश्यरूपी, भगणाश्रित एककालकी मूर्ति मौर ग्रहोंकी गतिके हेतु हैं ॥ १ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com