________________
सूर्यसिद्धान्तः
[ द्वितीयोऽ
अनुष्णगुश्चन्द्रः स्वक्रान्त्यन्ताद्विषुवद्वत्तानुकारेणावलम्वितश्चन्द्रः स्वासन्नक्रान्तिवृत्तप्रदेशेनाकृष्यते तथा तत्स्थानात् स्वभोगामितरेवत्यासन्नाद्यवधिकाभीष्टस्थानभूतक्रान्तिवृत्तप्रदेशादपि स्वपातेन चन्द्रपातेन दक्षिणोत्तरं दक्षिणस्यामुत्तरस्यां वा तत्सूत्रेण विक्षिप्यते त्यज्यते स्वभोगस्थानक्रान्तिवृत्तप्रदेशे चन्द्रबिंबं स्थातुं पातेन न दीयते ततोऽपि चन्द्रबिंबं स्थलान्तरे दक्षिणोत्तरसूत्रेण किञ्चिदन्तरेण त्यज्यत इत्यर्थः । एतेन सूर्यस्य पाताभावात्स्वभोगस्थानीयक्रान्तिवृत्तप्रदेशे बिंबं भवति न विक्षिप्तमित्यनुष्णगुरित्यनापि सूचितम् । परमविक्षेपणं दक्षिणोत्तरमित्यस्य विशेषणान्याह - भचक्रेति । द्वादशराशिकलानां षट्शताधिकैकविंशतिसहस्रमितानामेषाम् २१६०० अशीतिभागः स्वसप्रयमकलामितः परमं यस्य तद्दक्षिणोत्तरमित्यर्थः । चन्द्रस्य परमो विक्षेपः स्वभमित इति फलितम् । केचिदत्र सूर्यस्य शराभावात्तत्कक्षातो भचक्रस्य पञ्चमकक्षात्वात् ततोऽपि चन्द्रकक्षाया अष्टमत्वात् तत्र दक्षिणोत्तररूपदिग्द्वये चन्द्रस्य विक्षेपणात् पंचाष्टद्विघातरूपाशीत्यंशो भचक्रलिप्तानां परमचन्द्रविक्षेप इत्युपपत्तिमाहुः ॥ ६८ ॥
मा० टी० - चन्द्रमा के पात से भचक्र कला संख्या के अस्सी भाग, क्रान्ति से उत्तर में या दक्षिणमें परम विक्षेप होता है ॥ ६८ ॥
यथैवं भौमादयोऽपि स्वपातैर्विक्षिप्यन्त इत्येषामपि परमविक्षेपानाहतन्नवांशं द्विगुणितं जीवस्त्रिगुणितं कुजः ॥ बुधशुक्रार्कजाः पातैर्विक्षिप्यन्ते चतुर्गुणम् ॥ ६९ ॥
तन्नवांशं तस्य चन्द्रपरमविक्षेपस्य नवभागं त्रिंशतं द्विगुणितं षष्टिकलामितं परमेण तदंतरेणेत्यर्थः । पातेन गुरुर्दक्षिणोत्तरयोः क्रमेण विक्षिप्यते । भौमः पातेन त्रिगुणतं शिवं नवतिकलामि परमांतरेण विक्षिप्यते चतुर्गुणं त्रिंशतं विंशत्यधिकशतकलामितपरमांतरण बुधशुक्रशनैश्वराः स्वस्वपातैः प्रत्येकं विक्षिप्यन्ते स्वभोगक्रान्तिवृत्तप्रदेशात्त्यज्यन्ते । केचिदत्रापि त्रयस्त्रिंशत्कला बिंबाचंद्रान्नवांश द्विगुणेन सत्र्यंशकलाससकस्य गुरुबिम्बस्य तद्रूपं विक्षेपणं युक्तमस्माद्भौमस्याधःस्थत्वात् त्रिगुणं परमविक्षेपणमस्मादपि बुधशुकयोर्लघुपृथुविम्बयारेधःस्थत्वाच्चतुर्गुणं परमविक्षेपणं तुल्यं नाल्पाधि - • कमेवं शनेरुच्चकक्षास्यत्वेऽपि मन्दत्वाबदुधशुक्रविक्षेपणतुल्यं परमविक्षेपणं युक्तमित्युपपत्तिमाहु ॥ ६९ ॥
मा०टी० - तिस के नवशिसे दूना वृहस्वति, तिगुना मंगल, और चौगुने वध शुक्र व शनि पातकर के विक्षिप्त होते हैं ॥ ६९ ॥
नन्वेषामत्र कथने का सङ्गतिरित्यतः पूर्वोक्तमुपसंहरन्नाह
(३४)
एवं त्रिघनरन्ध्रार्करसार्कार्का दशाहताः ॥
चन्द्रादीनां क्रमादुक्ता मध्यविक्षेपलिप्तिकाः ॥ ७० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com