________________
ध्यायः १ ]
संस्कृत टीका - भाषाटीकासमेतः ।
( ३३ )
वारप्रवृत्तिरित्यादि । नन्वेतत्कालज्ञानं किमर्थमुक्तं प्रयोजनाभावादिति चेन्न । अहगणोत्पन्नग्रहस्य तात्कालिकत्वात् तत्कालज्ञानेन स्वार्धरात्रसमयस्य तत्कालस्य च यदन्तरं तेन तात्कालिकस्य ग्रहस्य चालने कृते सति स्वार्धरात्रसमये ग्रहः पूर्वसाधित एव भवतीति मन्दप्रत्ययस्यैव प्रयोजनत्वात् तत्कालज्ञानेन ग्रहस्य देशांतरसंस्काराकरणमिति लाघवाच्च । अतएव समनन्तरमेव ग्रहस्येष्टकालिकत्वसिद्धयर्थं चालनोक्तिः सङ्गच्छते । एतेन तत्ततोऽर्धरात्रात्क्षपाध निरक्षरात्र्यर्धे पञ्चदशघटिकात्मककाल उत्तरगोलेऽकदयाचरघटीमिताग्रिमकाले दक्षिणगोलेऽकदयाच्चरघटीमितपूर्वकाल इति फलितम् । पूर्वपश्चिमदेशयोर्देशान्तरघटीभिरधिकोने काले क्रमेण वारप्रवृत्तिरिति व्याख्यानं लङ्कासूर्योदय कालरूपवारप्रवृत्तिबोधकमपास्तम् । तच्छब्दस्य पूर्वपरामर्शकत्वादर्धरात्रादित्यस्यानुपपत्तेः पञ्चदशघटिकाकालस्य क्षपार्द्धशब्देनासिद्धेश्व | श्रीभगवताहर्गणस्य लङ्कायामार्द्धरात्रिक इत्यनेन लङ्कार्धरात्रकालिकत्वोक्तेः स्वदेशे तत्काल रूपवार प्रवृत्तिकालज्ञानस्योक्तस्य सङ्गत्यनुपपत्तेः । व्यवहारयोग्यलङ्कासूर्योदयकालवारप्रवृत्तेरत्र सङ्गत्यभा
वाच्च ॥ ६६ ॥
मा०टी०-देशांतर घडीके अनुसार पूर्वदेशके मध्य मध्यरात्र में मिलानेसे और पश्चिम देशमें घटानेसे वार आदि निकल आयेंगे || ६६ ॥ अथ ग्रहस्य तात्कालिककरणमाह
इष्टनाडीगुणा भुक्तिः षष्टया भक्ता कलादिकम् ।
गते शोध्यं युतं गम्य कृत्वा तात्कालिको भवेत् ॥ ६७ ॥ यत्कालिको ग्रहस्तत्कालात्पूर्वमपरत्राभष्टिकाले या इष्टघट्यस्ताभिर्गुणिता ग्रहमध्यगतिः षष्ट्या भक्ता फलं कलादिकं गते गताभीष्टकाले पूर्वकालेऽभीष्टे सतीत्यर्थः । शोध्यं ग्रहे हीनं गम्येऽग्रिमाभीष्टकाले सति ग्रहे युतं कृत्वा गणकेन विधाय तात्कालिकः स्वाभीष्टसामयिको ग्रहो भवेत् । गणकेन ज्ञातो भवेत् । अत्रोपपत्तिः । षष्टिसावनघटीभि गतिकलास्तदाभीष्टगतैष्यघटीभिः का इत्यनुपातेनावगतकलात्मकचालनेनः ग्रहः क्रमेण युतानस्तात्कालिको ग्रहो भवति । चक्रशोधितपातस्य विपरतिमिति ज्ञेयम् । चालितस्पष्टग्रहापेक्षया चालितमध्यग्रहः स्पष्टः कृतश्चेत्सूक्ष्म इति सूचनार्थमत्र ग्रहचालनमुक्तम् ॥ ६७ ॥
भा०टी० - मुक्तिको इष्ट नोडीसे गुण करके, ६० से भागकरके फल जाननेपर योग और गत होनेपर त्रियोग ( अलग) करनेपर तिस कालका ग्रह होगा || ६७ ॥ अथ चन्द्रस्य परमविक्षेपमानमाह
भचत्रलिप्ताशीत्यंशपरमं दक्षिणोत्तरम् ॥
विक्षिप्यते स्वपातेन स्वक्रान्त्यन्तानुष्णगुः ॥ ६८ ॥
१ मध्यरात्र से अभीष्टदण्डकी अलगताका नाम इष्ट नाडी है । अभीष्ट दण्ड परे होने से इष्टदण्ड निकलत हैं । ३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com