________________
(३२) सूर्यसिद्धान्त
[ प्रथमोऽतिशेषः । स्वरेखास्वदेशयोरन्तरयोजनानि फलामेति फलितार्थः। तैरन्तरयोजनैर्देशान्तरं तेन देशान्तराभ्यस्तेत्यादिप्रागुक्तमकारेण ग्रहाणां देशान्तरफलं कलात्मकं कुर्याद्गणक इति शेषः । हिकारात्तत्संस्कारोप्यभिन्नप्रकारत्वादभिन्न इत्यर्थः । अत्रोपपत्तिः । विना देशान्तरसंस्कार ग्रहगणितं स्वरेखादेशीयं भवति । अतो गणितसाधितोन्मीलनसम्मीलनादिकालाः स्वरेखादेशे सिद्धयति । स्वदेशे पूर्वविभागस्थे प्रथमं स्वस्य सूर्योदयादिकालास्तदन्तरं रेखाया इति चन्द्रग्रहणस्य सर्वदेशे युगपत्सम्भवात् । गणितागतकालादेखादेशस्थादनन्तरं स्पर्शादिकालो भवति । एवं स्वदेशे पश्चिमविभागस्थे प्रथम रेखादेशेऽर्कोदयादिकालास्तदनन्तरं स्वदेश इति रेखास्थगणितांगतस्पर्शादिकालाट्या -- त्मकात्पूर्वमेव स्पर्शादिकालो भवति । अतः सम्यगुपपन्नमतीत्येत्यादिसाई श्लोकोक्तम् । स्वदेशरेखादेशसूर्योदयाघवधिकघश्यात्मककालयोरन्तरं देशान्तरघटिकाः सिद्धाः सूर्यो दयद्यान्तरकालेनार्को भूपरिधिं कामतीति षष्टिसावनघटीभिर्भूपरिधियोजनानि स्वदेशीयानि तदा तत्कालान्तररूपदेशान्तरघटीभिः कानीत्यनुपातेन स्वरेखादेशस्वदेशयोरन्तरयोजनानि । ज्ञातेभ्यः एभ्यः पूर्वदिशैव देशान्तरं भवति । सूर्यग्रहणस्य सर्वदेशे युगपदसम्भवात्तदुन्मीलनकालादिनाक्तदिशा नैतज्ज्ञानमित्यनुरुक्तरिति ध्येयम् ॥६३॥ ॥ ६४ ॥६५॥
भान्टो०-गणित पडेहुए चंद्रग्रहणके पीछे जिस स्थानमें ग्रहण निकलताहो वही स्थान मध्यरेखासे पूर्व दिशामें भोर भागे होनेपर पश्चिममें जानना चाहिये । प्रत्यक्ष और गणि तसे आये हुए कालके भन्तर दण्ड स्वभूगरिघिसे गुणकरके ६० से भाग करनेपर स्वदेशान्तर योजन प्राप्त होजायँगे । तिनसे अपने देशकी भूपरिधि और देशांतरादि निर्णय करना गचित है ॥ ६३ ॥ ६४॥६५॥ अथ वारप्रवृत्तिकालज्ञानमाह
वारप्रवृत्तिः प्राग्देशे क्षपाऽभ्यिधिके भवेत् ॥
तद्देशान्तरनाडीभिः पश्चादूने विनिर्दिशेत् ॥६६॥ रेखातः पूर्वभागस्थितस्वाभिमतदेशे तद्देशान्तरनाडीभिः पूर्वप्रकारज्ञातदेशान्तरना डीभिरभ्यधिकेऽर्धरात्रे युक्तार्द्धरात्रसमयेऽर्धरात्रादनन्तरं देशान्तरघटीकाल इत्यर्थः । वारप्रवृत्तिर्वारस्यादिभूतः कालः स्यात् । रेखातः पश्चिमभागस्थदेशे पूर्वप्रकारज्ञातदेशान्तरघटीभिरूनेऽर्धरात्रेऽधंरात्रात् पूर्वमेव देशान्तरघटीकाले वारप्रवृत्तिं विनिर्दिशेद्गणकः कथ येत् । अत्रोपपत्तिः । यमकोटिसूर्योदयकालो लङ्कार्धरात्रसमयरूपो ग्रहचारप्रवृत्तिरूप: स्वदेशे कदोत रेखातः पूर्वापरभागयोः स्वार्धरात्रकालादनन्तरं पूर्वक्रमेण तदर्द्धरात्रं देशान्तरघटीभिर्भवति । स्वनिरक्षदेशस्वदेशाधरात्रयायुगपत्संभवात् । अत उपपन्नं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com