________________
ख्यायः १. ]
संस्कृतटीका - भाषाटीकासमेतः ।
(३१)
ननु येन स्वस्थानं रेखापुरात्पूर्वतोऽपरत्र वा किययोजनान्तरेणास्तीति न ज्ञायते तेन देशान्तर फलादिकं कथं कार्यमित्यतः लोकत्रयेणाह -
अंतीत्योन्मीलनादिन्दोः पश्वात्तद्गणितागतात् ॥ यदा भवेत्तदा प्राच्यां स्वस्थानं मध्यतो भवेत् ॥ ६३ ॥ अप्राप्य च भवेत्पश्चादेवं वापि न मीलनात् ॥ तयोरन्तरनाडीभिर्हन्याद्भूपरिधि स्फुटम् ॥ ६४ ॥ षष्ट्या विभज्य लब्धैस्तु योजनैः प्रागथापरैः ॥ स्वदेशपरिधिर्ज्ञेयः कुर्यादेशान्तरं हितेः ॥ ६५ ॥
चन्द्रस्य सर्वग्रहणान्तर्गतोन्मीलनकालाद्विना, देशान्तरं गणितागताच्चन्द्रग्रहणोक्तप्रकारगणितज्ञानात् । अतीत्य तत्कालस्यातिक्रमणं कृत्वा पश्चादनन्तरकाले मन्दबोधार्थमिदम् । अन्यथातत्य पश्चादित्यनयोरेकतरस्य वैयर्थ्यापत्तेः तच्चन्द्रबिम्बस्योन्मीलनं यदा यदीत्यर्थः । स्यात्तदा तर्हित्यिर्थः । स्वाभिमतस्थानं मध्यतो मध्यरेखादेशात्पूर्वदिशि भवेत्तिष्ठतीत्यर्थः । पश्चात्तदित्यत्र दृक्सिद्धमिति पाठे तु प्रत्यक्षमुन्मीलनमित्यर्थः । अप्राप्य तदतिक्रमणमकृत्वा पूर्वकाल एव । चकाराच्चन्द्रोन्मीलनं यदि स्यात्तर्हि मध्यरेखातः स्वस्थानमित्यर्थः । पश्चात् पश्चिमदिग्भागे भवेोत्तिष्ठतीत्यर्थः । ननु चन्द्रस्य स्पर्शमोक्षसम्मीलनोन्मीलनकालेघून्मीलनकाल एव कथं गृहीत इत्यत आह- एवमिति । वा प्रकारान्तरेण निमीलनाचन्द्रसम्मीलनकालात् । एवं चन्द्रग्रहणाधिकारोक्तगणितप्रकारज्ञानादनन्तरकाले सम्मीलनं यदि तर्हि मध्यरेखादेशात्स्वस्थानं पूर्वदिग्भागे तिष्ठति पूर्वकाले सम्मीलनं यदि तर्हि मध्यरेखादेशात्स्वस्थानं पश्चिमदिग्मागे तिष्ठतीत्यर्थः । अपिशब्दो निश्चयार्थे । तेनोन्मीलनसम्मीलनकालयोन्निरीतिव्युदासः । तथा' चोन्मीलनग्रहणमुपलक्षणार्थ तत्रापि स्पर्शमोक्षयो ग्रहणाद्यन्तरूप योरनिश्चयत्वसम्भावनयोक्तिमुपेक्ष्य ग्रहणमध्यस्थयोः सम्मीलनोन्मीलनयोनिश्चयत्वेनोक्तिः कृतेति भावः । अथ देशान्तरयोजनपुरःसरं देशान्तरफलं सिद्धमित्याह - तयोरिति । प्रत्यक्षोन्मीलन कालगणितागतोन्मीलनकालयोः सम्मीलनकालयोस्तादृशयोर्वान्तरघटीभिर्भूपरिधिस्पष्टं स्वदेशभूपरिधिं लंबज्याघ्न इत्याद्यवगतं हन्याद्गुणयेत् । तादृशं गुणितस्पष्टपरिधिं षष्ट्या भक्त्वा लब्धैः प्राप्तैर्योजनैः पूर्वभागयोजनैः । अथाथवा परैः पश्चिमविभागस्थितै यो जनैः स्वदेशपरिधिः स्वदेशस्य परिधिरवधिः स्वदेशस्थानमण्डलरूपस्तु काराद्रेखा देशान्तरित इत्यर्थः । ज्ञेयो गणकेने• अतत्यिोन्मीलनादिन्दो कसिद्धं गणितागतात् । इति वा पाठः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
I
www.umaragyanbhandar.com