________________
(३०) सूर्यासद्धान्तः
[प्रथमोऽज्ञातमस्मात्स्वपरिधिनेदमन्तरं योजनात्मकं तदोक्तपरिधिना किमित्यनुपातेन लङ्कास्वनिरक्षेदशयोरन्तरमुक्तपरिधिस्थं ज्ञातम् । ततोऽर्कोदयद्वयान्तरकालेनार्को भूपरिधिं क्रामति तत्र ग्रहाः स्वां स्वां गाते कलात्मिकामातिकामन्त्यत उक्तपरिधिना ग्रहगतिकलास्तदा प्रासिद्धलङ्कास्वनिरक्षदेशान्तरयोजनैः केत्यनुपातेनोक्तपरिध्योर्गुणहरयोस्तुल्यखेन नाशात्स्वरेखादेशस्वदेशयोरन्तरयोजनानि ग्रहगतिगुणितानि स्वपरिधिभक्तानि फलं ग्रहस्यान्तरकलाः । यद्यपि स्वपरिधिना गतिकलास्तदा स्वरेखादेशस्वदेशयोरन्तरयोजनैः केत्येकानुपातेनैव देशान्तरफलमुपपन्नं भवति तथापि निरक्षदेशपदार्थसम्बन्धाभावादिदमुपपन्नं फलं निरक्षदेशीयं कथमित्याग्रहनिरतातिमन्दस्य बोधार्थ गुरुभूतमप्यनुपातद्वयमुक्तम् । तद्धनर्णोपपत्तिस्तु लङ्कादेशात्स्वनिरक्षदेशस्य पूर्वभावस्थितत्वे लङ्का देशार्द्धरात्रात्स्वनिरक्षदेशार्द्धरात्रमर्वाग्भवति । तदुदयकालात्प्रवहानिलवेगेन पूर्वभागे पूर्व मेवोदयात् । अतोऽग्रिमकालीनग्रहस्य पूर्वकालिकत्वासिद्धयर्थं तत्फलं न्यूनं कार्यम् । एवं निरक्षदेशस्य लङ्कातः पश्चिमस्थत्वे लङ्कोदयानन्तरोदयसद्भावालङ्कार्द्धराबादग्रिमकालेऽर्द्धरात्रमतः पूर्वकालिकग्रहस्याग्रिमकालिकत्वसिद्धयर्थं तत्फलं योज्यम् । चक्रशोधितपातस्यायं संस्कारो विपरीत इति ज्ञेयम् । स्वनिरक्षदेशस्य लङ्कातः पूर्वापर. भागस्थत्वं स्वरेखादेशात्स्वदेशस्य पूर्वापरभागस्थस्यानुरोधेनति स्वनिरक्षदेशस्वदेशयोयाम्योत्तरेक्यादर्द्धरात्रयोरभिन्नत्वात्स्वदेशार्धरात्रेऽपि स्वनिरक्षदेशार्द्धरात्रकालिका एव ग्रहा अविकृता इति सर्वमुक्तमुपपन्नम् ॥ ६०॥ ६१ ॥
भा० टी०-पृथ्वीकी परिधिको अपने देशशी सम्मज्यासे गुणकरके त्रिज्यासे भाग करनेपर स्फुट भूपरिधि होती है । (ज्यादिको दूसरे अध्यायमें देखना चाहिये ) देशान्तर द्वारा ग्रहभक्ति गणेयरके स्फुट भू-परिधिसे भाग करनेपर जो कलादि फल हो, 45 अपने देशसे पूर्वमें से तो ग्रहसे घटावै । पश्चिममें हो तो मिलावे ॥ ६० ॥ ६१ ॥ अथ रेखास्वरूपं तद्देशांश्च कांश्चिदाह
राक्षसालयदेवोक शेलयोर्मध्यसूत्रगाः ॥
रोहीतकमवन्ती च यथा सन्निहितं सरः ॥ ६२ ॥ राक्षसालयं लङ्का देवानां गृहरूपः पर्वतो मेरुरनयोर्मध्ये ऋजुसूत्रं तत्र स्थिता देशा रेखाख्या- लङ्कादक्षिणसूत्रस्थास्त्वनुपयुक्तास्तत्र मनुष्यागोचरत्वादिति नोक्ताः । ज्ञा. नार्थमुदाहरति । रोहीतकमिति । यथा रोहीतकं नगरमवन्त्युजयिनी सन्निहितं सरः कुरुक्षेत्रम् । चकारस्तथेत्यव्यवपरः । तथान्यानि परस्परं सन्निहिततया ज्ञेयानि ॥ ६२ ॥ __ भा० टी०-राक्षसालय और देवौक पर्वतके मध्यमें जो सूत्र रोहीतक, भवन्ती और कुरुक्षेत्रादि स्थानके निकट दिया गया है, वही मध्य रेखा है ॥ ६२ ॥
१ दैनिकग्रहभुक्तिकलादि र. ५९ । ८ । चं. ७९० । ३८ । मं. ३१ । २६ बु-शी. २४ ५३२ बृ. ४: ५९ शु शी. ९६ । ८ श. २ । च-उ. ६४ रा. वक्र ३ । ११ । भूपरिधि ५० । ६० पोजन है।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com