________________
ध्यायः १. ]
संस्कुतटीका - भाषा टीकासमेतः ।
( २९ ) खखखरसराममितः ३६००० अत्र पूर्वोक्तररीत्यापवर्तने गुणाः ३ । ९ । ४४ । पादोन। दशावयवयुतत्रयमस्य वर्गो दशप्रायः ९ । ५९ । ५९ । इत्युपपन्नमुक्तम् ॥ ५९ ॥ मा० टी० - भूकर्ण १६०० योजन है । तिसके वर्गको १० से गुणा करके पद अर्थात् मूल निकाल लेनेसे भूपाधि होती है ।। ५९ ।।
स्फुटपरिध्यानयनं देशान्तरफलानयनं तत्संस्कारं च श्लोकाभ्यामाहलम्बज्यानस्त्रि जीवाप्तः स्फुटो भूपरिधिः स्वकः ॥ तेन देशांतराभ्यस्ता ग्रहभुक्तिर्विभाजिता ॥ ६० ॥ कलादितत्फलं प्राच्यां ग्रहेभ्यः परिशोधयेत् ॥ रेखा प्रतीची संस्थाने प्रक्षिपेत्स्युः स्वदेशजाः ॥ ६१ ॥ द्वादशपलभयोवर्गयोग मूलमक्षकर्णः । अनेन द्वादशगुणिता त्रिज्याभक्ता फलं लंबज्या । अनया गुणितो भूपरिधिस्त्रिज्यया : गजाग्निवेदराममितया भक्तः फलं स्वकः स्वदेशसम्बन्धी स्पष्टो भूपारीधः स्यात् । ग्रहस्य गतिर्देशान्तराभ्यस्ता स्वररेखादे - शस्वदेशयोरन्तरयोजनानि देशान्तरपदवाच्यानि तैर्गुणिता तेन स्पष्टेन भूपरिधिना भक्ता फलं कलादिकं तत्फलं प्राच्यां स्वरेखादेशात्स्वदेशस्य पूर्वदिग्भागस्थितत्वे ग्रहेभ्यः कलादिस्थाने परिशोधयेद्वर्जयेद्धीनं कुर्यादित्यर्थः । रेखाप्रतीचीसंस्थाने स्वरेखादेशात्पश्विमदिग्भागस्थिते स्वदेशे ग्रहेभ्यः कलादिस्थाने प्रक्षिपेद्योजयेत्कुर्यात् । गणक इति शेषः । ते सिद्धा ग्रहाः स्वदेशजाः स्वदेशीया भवन्ति । पूर्वमहगर्णस्य लंकादेशीयत्वेन तदुत्पन्नग्रहाणां लंकादेशीयत्वात् । अत्रोपपत्तिः । यद्यपि भूमेः कन्दुकाकारत्वेन सर्वत्राभिन्नः परिधिरिति स्फुटपरिध्यसम्भवस्तथापि निरक्षदेशस्य मध्यत्वकल्पनेनेोक्तो भूपरिधिस्तद्देशानामेवं तदन्यत्र तदनुरोधेन वृत्तानां लघुत्वसम्भवेनोत्तरोत्तरं न्यूनपरिधिः स्वदेशे स्फुटसंज्ञः । एवं नवत्यक्षांशे मेरुस्थाने वडवास्थाने च परिध्यभावः । निरक्षदेशे परम उक्तः परिधिरतो यत्राक्षांशा नवतिपरमास्तत्र लम्बांशाभावः । यतोऽक्षांशाभावस्तत्र लम्बांशाः परमा नवतिः । लम्बांशाक्षांशौ तु वक्ष्यमाणस्वरूपौ । तथाच लम्बांशहासानुरोधेन परिधेरपि ह्रास इति परमलम्बांशैर्नवतिमितैरुक्तो भूपरिधिस्तदा स्वदेशीयलम्बांशैः क इत्यनुपात उपपन्नोऽपि वृत्ताश्रितांशेभ्योऽनुपातानामसम्भवेन सर्वेरुपेक्षितत्वाच्च ज्यानुपातस्य सर्वैरङ्गीकृतत्वात्प्रमाणस्थाने प्रमाणांशज्या परमातिज्या । इच्छास्थाने इच्छांशानां ज्यालम्बज्येति युक्तमुक्तमुपपन्नं स्पष्टपरिध्यानयनम् । देशान्तरोपपत्तिस्तु लङ्कादेशीयो ग्रहः स्वदेशत: समसूत्रेण यो दक्षिणोत्तरयोर्निरक्षदेश आसन्नस्तत्र कार्यः । तदर्थं लङ्कादेशस्व निरक्षदेशयोरन्तरयोजनज्ञानमावश्यकम् । एतत्त्वस्मादृशामशक्यमिति परिभ्यपचयवत्तदन्तरता पचितं लङ्कोत्तरदक्षिणसूत्रस्थस्वरेखादेशस्वदेशयोरन्तरं स्वपरिधिस्थं गणनया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com