________________
(ध्यायः १.] संस्कृतटीका-भाषाटीकासमेतः । (२७)
भा० टी०-बृहस्पात के भगणको १२ से गुणकरके राशिक साथ मिलाय ६० से भाग करनेपर भागफल विजयादि संवत्सर होगा ॥ ५५॥ अथोक्तमुपसंहरल्लाघवेन ग्रहानयनमाहविस्तरेणैतदुदितं संक्षेपाट्यावहारिकम् ॥
मध्यमानयनं कार्य ग्रहाणामिटतो युगात् ॥५६॥ एतत् षण्मनूनां तु सम्पिण्डयेत्यादिविस्तरेण गणितक्रियाबाहुल्येनोदितमुक्तं व्यावहारिकं लोकव्यवहारोपयुक्तमिदं ग्रहानयनं संक्षेपादल्पगणितप्रयासाज्ज्ञेयम् । तदाह-मध्यमानयनमिति । ग्रहाणां मध्यमानयनं मध्यमानेन गणितामष्टतो वर्तमानात्रेताख्याधुगान्महायुगस्य चरणास्त्रेतायुगादितो गतान्दैरल्पभूतैरवोक्तरीत्याहर्गणमानीयोक्तरत्यिा मध्यग्रहाः कार्या इत्यर्थः ॥५६॥
भा० ०- यह समस्त विस्तारसे कहा कार्यके संक्षेपसे मी त्रेताकी आदिसे ग्रहोंके बीचमें लाना उचित है ॥ ५६ ॥
ननु सृष्टयादितो ग्रहचारप्रवृत्तेस्तदादित आनीतस्य ग्रहस्य वास्तवत्वेन तत्तुल्योऽय ग्रहः कथमवगत इत्यत आह
अस्मिन्कृतयुगस्यान्ते सर्वे मध्यगता ग्रहाः ॥ विना तु पातमन्दोच्चान्मेषादौ तुल्यतामिताः ॥ ५७॥ अस्मिन्निदानीन्तने कृतयुगस्यावसानसमये सर्वे सप्तग्रहाः सूर्यादयो मध्यगता मध्यमा मेषादौ मेषादिप्रदेशे तुल्यतां समानतां गणिता गतराश्यादिभोगेनेताः प्राप्ताः । पात.. मन्दोच्चान्विना । पातमन्दोच्चास्तु न तुल्या न वा मेषादौ । तथा च ग्रहाणां शीघ्रो. चानां च भगणपूर्तित्वात्रेतादिसमयावगतगतकालादागतराश्यादयः सृष्टयादिगतकालावगतराश्यादिभिस्तुल्या भगणानां च प्रयोजनाभावादिति भावः ॥५७ ॥
भा०टी०-इस कृतयुगले भन्तमें पात और मन्द व उच्चके सिवाय समरत ग्रह मध्य मेषके प्रथममें थे ॥ १७ ॥ अथोचपातयोर्विशेषमाह
मकरादौ शशाङ्कोच्चं तत्पातस्तु तुलादिगः॥
निरंशत्वं गताश्चान्ये नोक्तास्ते मन्दचारिणः ॥ ५८॥ चन्द्रस्य मन्दोचं तदानी मकरादावस्ति तत्पातश्चन्द्रपातस्तुलादिस्थोऽस्ति । तुकारादतस्तयोस्त्रेतादित आनयनं नवषड्राशियोजनविशेषेण सुगममित्यर्थः। नन्वेवमन्येषामपि यद्राश्यादिस्थत्वं तत्कथनेन तेषामप्यानयनं सुगम भविष्यतीत्यत आह । निरंशत्वामति । अन्येऽवशिष्टा मन्दोच्चपाता ये मन्दचारिणोऽल्पगतय उक्ताः पूर्व भगणोत्तया कथितास्ते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com