________________
(२६) सूर्यसिद्धान्त:
[ प्रथमोऽभा० टी०-अपने २ भगण करके दिनराशिको (अह ) गुणकरके कुदिनसे भाग करनेपर ग्रहकी मध्यगतिसे उत्पन्न हुए भगणादि मध्य होंगे ॥ १३ ॥ अथामु प्रकारमुचपातयोरानयनायातिदिशति
एवं स्वशीघ्रमन्दोच्चा ये प्रोक्ताः पूर्वयायिनः ॥ विलोमगतयः पातास्तद्वचनाद्विशोधिताः ॥५४॥ ये पूर्वयायिनः पूर्वदिग्गतयः स्वशीघ्रमन्दोच्चाः स्वेषां ग्रहाणां शीघोचमन्दोच्चा ग्रहबहुत्वेन शीघ्रोचमन्दोच्चयोर्बहुत्वादहुवचनम् । प्रोक्ताः पूर्व भगणोक्त्या कथितास्तेऽप्येवं ग्रहानयनरीत्या साध्याः । ननु पूर्वयायिन एवं साध्यास्ताहिँ पश्चिमगतयः पाताः कथं साध्या इत्यत आह-विलोमगतय इति । पश्चिमगतयः पाता अपि तद्वद्रहानयनरीत्यात्र चंद्रोच्चपातौ ग्रहानयनवयुगकल्पभगणसावनाम्यां सिद्धौ भवतोऽन्येषामुच्चपातौ तु कल्पसावनदिनहरेणेति ध्येयम् । ननु तर्हिः पूर्वपश्चिमगत्योः को विशेष आनयन इत्यत आह-चक्रादिति । आगता राश्यादिपाता द्वादशराशिभ्यः शोध्याः पाता भवन्ति । एतावानेव विशेष इति भावः । अत्रोपपत्तिः । पूर्वयायिनो मेषवृषमिथुनादिक्रमेण गच्छन्ति पश्चिमगतयस्तु मेषमीनकुम्भेत्याद्युत्क्रमेण गच्छन्ति । तत्रोत्क्रमगणनाया लोकेऽनभ्यासाद्राशिकमेण तज्ज्ञानार्थ द्वादशराशिभ्यः शोधिताः । पूर्वगतिपक्तिस्था भवन्ति ॥५४॥
भा०टी०-ऐसे ही अपने २ पहले चलनेवाले शीघ्रमन्दोच्चादि मध्य निर्णय होजायगा परन्तु समस्तपात विलोम गमन करनेवाले अर्यात् विपरीत भार्गमें चलानेवाले हैं, तिस कारणसे मध्यराश्यादि १२ राशिसे महग करनेपर मध्य होजायगा ॥ ५४॥ अथ संवत्सरानयनमाह
द्वादशना गुरोर्याता भगणा वर्तमानकः॥
राशिभिः सहिताः शुद्धाः षष्टया स्युविजयादयः॥ ५५॥ अहर्गणा तस्य भगणादिकस्य बृहस्पतेर्याता गता भगणा उपरिस्था द्वादशगुणिता वर्तमानकैयस्मिन्नधिष्ठिनः स वर्तमानस्तत्साहतैरकेयुक्तरित्यर्थः । राशिभिर्गणितागतगशिभिर्यद्राशौ तिष्ठति तस्य मेषादिसंख्ययेति फलितार्थः । युताः षष्ट्याशुद्धा भागावशेषिताः फलं भागादिकं चानुपयोगात्त्याज्यम् । विजयादयः संवत्सरा वर्तमानसहिता मवन्ति । अत्रोपपत्तिः “मध्यगत्या भभोगेन गुरोगैरववत्सराः" इति लघुवसिष्ठसिद्धान्तोक्तगुरुमध्यमराशिभोगकाल एकः संवत्सर इति सृष्टयाद्यानीतभगणादिगुरोः सम्पूर्णराशिज्ञानाथ भगणा द्वादशगुणा वर्तमानराशिसंख्यायुताः षष्टितष्टाः शेष विजयादिकः संवत्सरो वर्तमानो भवति । संवत्सराणां षष्टिसंख्यत्वात् । सृष्टचादौ विजयसंवत्सरसद्भावाच ॥ ५५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com