________________
संस्कृत टीका - भापाटीका समेतः ।
(२५)
ध्यायः १. ] अहर्गणाद्विष्ठादेकत्र मासदिनानां संख्यया त्रिंशता भक्तादाप्तं फलम् । अपरत्र वर्षदिनानां संख्यया षष्ट्यधिकशतत्रयेण भक्तादाप्तं फलम् । शेषयोरनुपयोगात्त्यागः ! क्रमेण फलद्वयं द्वाभ्यां त्रिभिर्गुणितमुभयत्रैकसंख्यायुक्तं सप्तभागहारेण भक्तात्फलत्यागेनावशिष्टौ क्रमेण मासस्वामिवर्षस्वामिनौ ज्ञातव्यौ । तुकाराद्वयुत्क्रमेण वारेश्वरगणना तत्क्रमेणानयोर्गणना परमत्र वर्तमानेत्यर्थः । अत्रोपपत्तिः । सृष्टयादित्रिंशदहोरात्राणामेकः सौरसावनमानस्तस्य सूर्योऽधिपतिर्मासादिदिनेऽर्कस्याधिपतित्वात् । एवं द्वितीयमासादौ भौमस्य दिनाधिपतित्वाद्धौमो द्वितीयमासेश्वर इति प्रतिमासं मासेश्वरयोरन्तरं इयम् । त्रिंशद्दिनानां सप्ततष्टतया इयवशेषात् । एवं षष्ट्यधिकशतत्रयाहोरात्राणामेकं सौरसावन वर्ष तस्याधिपोऽर्कः । वर्षादिदिनेऽर्कस्याधिपतित्वात् । एवं द्वितीयसावन वर्षादाँ बुधस्य दिनाधिपतित्वादूबुधो द्वितीयवर्षेश्वर इति प्रतिवर्ष वर्षेश्वरयोरन्तरं त्रयं पष्टयधि कशतत्र्यदिनानां सप्ततष्टतया व्यवशेषात् । तथा च वर्तमानकाल तद्गणनया कियन्तो माता गताः । कियंति च वर्षाणि गतानीति ज्ञानार्थमहर्गणस्त्रिंशद्भक्तः फलं गतमासाः । षष्ट्यधिकशतत्रयभक्तः फलं गतवर्षाणि । एकमासे द्वौ वारौ तदा गतमासैः क इति गतमासवारा वर्तमानार्थं सैकाः । एवमेकवर्षे त्रयो वारास्तदा गतवर्षैः क इति गतवर्ष - वारा वर्त्तमानार्थे सैका वाराणां सप्तसंख्यत्वात् सप्ततष्टौ शेषौ सूर्यादिको मासवर्षेश्वरौ ॥ ५२ ॥
मा० टी० - अहर्गणको मास (३०) और वर्ष (३६०) दिनसंख्या से भागकरके २ और तीन गुणा करके तिगुणित फलमें एक मिळावे । फेर तिस संख्या में ७ का भाग देनेपर शेषांक रविसे गणित करनेपर मासेश्वर और वर्षेश्वर होगा ॥ ५२ ॥
पथ ग्रहानयनमाह
यथा स्वभगणाभ्यस्तो दिनराशिः कुवासरेः ॥ विभाजितो मध्यगत्या भगणादिग्रहो भवेत् ॥ ५३ ॥
दिनराशिरहर्गणो यथा स्वभगणाभ्यस्तो यत्कालिकनिजोक्तभगणैर्गुणितो युगभगणैः कल्पभगणैर्वेत्यर्थः । तथा कुवासरैस्तात्कालिकसावनदिनैर्युगसावनैः कल्पसाब-नैर्वेति यथायोग्यमित्यर्थः । भक्तः फलं यस्य ग्रहस्य भगणा गुणनार्थं गृहीताः सग्रहो भगणादिर्भगणराशिभागकलाविकलात्मकभोगात्मकः । मध्यगत्या मध्यगतिमानेन नं प्रतिदिन विलक्षणस्फुटगतिप्रमाणनाग्रे तत्प्रमाणेन ग्रहभोगज्ञानस्योक्तेः । मध्यमो ग्रहः स्यादित्यर्थः । अत्रेोपपत्तिः । युगादिसावनैर्युगादिभगणास्तदैकेन दिनेन केति प्राप्त मध्यम गतिस्तत एकेन दिनेनेयं गतिस्तदेष्टाहर्गणेन केति रूपयोस्तुल्यत्वेन विकाराजनकत्वाच्च नाशादुपपन्नमानयनम् । यद्यपि युगादिसावनैर्युगादिभगणास्तदेष्टाहर्गणेन किमित्येकानुपातेनानयनमुपपन्नं लाघवात्तथापि मध्यगत्येत्यस्य प्रदर्शनार्थमनुपात द्वयं गुरुभूतमपि प्रदर्शितम् ॥ ५३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com